इन्द्रो᳚ मा॒याभि᳚ः पुरु॒रूप᳚ ईयते यु॒क्ता ह्य᳚स्य॒ हर᳚यः श॒ता दश᳚ ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । मा॒याभिः᳚ । पु॒रु॒॑रूपः᳚ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर᳚यः । श॒ता । दश᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रःप्रतिरूपोरूपाणांप्रतिनिधिःसन् रूपंरूपंतत्तदग्र्यादिदेवतास्वरूपंबभूवप्राप्नोति भूप्राप्तावितिधातुः इन्द्रःस्वमाहात्म्येनतत्तद्दे- वतारूपोभवतीत्यर्थः अस्यचेन्द्रस्यतत्प्राप्तमग्न्यादिदेवतास्वरूपंप्रतिचक्षणायप्रतिनियतदर्शनाय अयमग्निरयंविष्णुरयंरुद्रइत्येवमसंकीर्ण- दर्शनायभवति अपिचायमिन्द्रोमायाभिः ज्ञाननामैतत् ज्ञानैरात्मीयैः संकल्पैः पुरुरूपोबहुविधशरीरः सन् ईयतेबहून्यजमानान् गच्छति ननुद्वावेवास्याश्वौ एकश्चरथः कथमनेनयुगपद्बहून् गच्छतीत्यतआह—अस्येन्द्रस्यहरयोश्वाःयुक्तारथेयोजिताःशतादश सहस्रसंख्याकाः अपरिमिताः सन्तिहि यस्मादेवंतस्माद्बहुशरीरणिस्वीकृत्ययुगपद्धविष्मतोयजमानान् गच्छतीत्यर्थः अन्येमन्यन्ते इदिषरमैश्वर्येइत्यस्य- धातोः रथानुगमादिन्द्रः परमात्मासचाकाशवत् सर्वगतःसदानंदरूपः सएवोपाधिभिरन्तः करणैः प्रतिशरीरमवच्छिन्नःसन् जीवात्मेति- व्यपदिश्यते सएवअनादिमायाशक्तिभिः वियदादिजगदात्मनाविवर्ततेशब्दादिविषयहरणशीलाः इन्द्रियवृत्तयश्चतेनैवसंबद्धाः एतत्सर्वं- तस्यपरमात्मनोयद्वास्तवंरूपंतस्यदर्शनायेति अयमर्थोनयाप्रतिपाद्यते रूपंरूप्यतइतिरूपं शरीरादिप्रतिशरीरंचिद्रूपः सर्वगतः परमात्मा- प्रतिरूपः प्रतिबिंबरूपःसन् सर्वाणिशरीराणिबभूव प्राप्नोत् तच्चप्राप्तंप्रतिबिंबरूपंअस्यपरमात्मनः प्रतिचक्षणायप्रतिनियताकारस्यदर्शना- यभवति सचेन्द्रः परमेश्वरः मायाभिर्मायाशक्तिभिः पुरुरूपः वियदादिभिर्बहुविधरूपैरुपेतःसन्नीयते चेष्ठते एतदपि अस्यपरमात्मनःप्रति- चक्षणायभवति अस्यचदशशतासहस्रसंख्याकाहरयः इन्द्रियवृत्तयः युक्ताःविषयग्रहणायोद्युक्ताः सन्ति तदमिअस्यवास्तवरूपस्यदर्शनाय- भवताति एवंस्थूक्ष्मशरीरयोर्वियदादिमहाप्रपंचस्यचतत्वज्ञानहेतुत्वमनयाप्रत्यपादीति ॥ १८ ॥