परा॒ पूर्वे᳚षां स॒ख्या वृ᳚णक्ति वि॒तर्तु᳚राणो॒ अप᳚रेभिरेति ।
अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र᳚ः श॒रद᳚स्तर्तरीति ॥
अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र᳚ः श॒रद᳚स्तर्तरीति ॥
पदपाठः (Word-by-word)
परा᳚ । पूर्वे᳚षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒॑तर्तु᳚राणः । अप᳚रेभिः । ए॒ति॒ ।
अन᳚नु॑भूतीः । अ॒व॒॑धू॒न्वा॒नः । पू॒र्वीः । इन्द्रः᳚ । श॒रदः᳚ । त॒र्त॒री॒ति॒ ॥
अन᳚नु॑भूतीः । अ॒व॒॑धू॒न्वा॒नः । पू॒र्वीः । इन्द्रः᳚ । श॒रदः᳚ । त॒र्त॒री॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः पूर्वेषांपूर्वभाविनांप्रशस्तानांकर्मणांकुर्वतांपुरुषाणांसख्यासखित्वानिपरावृणक्ति वर्जयति अपिच वितर्तुराणस्तान् हिंसन् अपरेभिरपरैः अमुख्यैरप्रशस्तैरपिकर्मानुष्ठातृभिः एति सख्यंप्राप्नोति तथाअनानुभूतीः अपरिचरणाःप्रजाः अवधून्वानः परित्यजन् पूर्वी- र्बह्वीः शरदःसंवत्सरान्अयमिन्द्रः तर्तरीति भृशमतिक्रामति स्तोतृभिःसहसख्यंकुर्वन् चिरकालंवसतीत्यर्थः ॥ १७ ॥