श्रवणम्

6.47.19
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति ।
को वि॒श्वाहा᳚ द्विष॒तः पक्ष᳚ आसत उ॒तासी᳚नेषु सू॒रिषु᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒जा॒नः । ह॒रिता᳚ । रथे᳚ । भूरि᳚ । त्वष्टा᳚ । इ॒ह । रा॒ज॒ति॒ ।
कः । वि॒श्वाहा᳚ । द्वि॒ष॒तः । पक्षः᳚ । आ॒स॒ते॒ । उ॒त । आसी᳚नेषु । सू॒रिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिताहरितावश्वौ रथेयुजानोयुंजन् त्वष्टादीप्तइन्द्रः इहत्रैलोक्येभूरिभूरिषु बहुषुप्रदेशेषु राजति दीप्यते उतापिच सूरिषुस्तोतृषुअ- स्मादृशेषु आसीनेषुसत्सु विश्वाहासर्वदाइन्द्रादन्यः कोनामद्विषतः शत्रोः पक्षःपाचकोबाधकः सन् आसते आस्ते इन्द्रएवसर्वदा शत्रून् बा- धतइत्यर्थः यद्वा पक्षइतिसकारान्तंसमीपवचनं इन्द्रादन्यः कोनामद्विषतः शत्रोः समीपेआसते आस्तेइन्द्रएवनिर्भयःसन् शत्रुसमीपेस्था- तुंशक्नोतीतिभावः ॥ १९ ॥