श्रवणम्

6.47.28
इन्द्र᳚स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु᳚णस्य॒ नाभि᳚ः ।
सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव᳚ रथ॒ प्रति᳚ ह॒व्या गृ᳚भाय ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । वज्रः᳚ । म॒रुता᳚म् । अनी᳚कम् । मि॒त्रस्य᳚ । गर्भः᳚ । वरु᳚णस्य । नाभिः᳚ ।
सः । इ॒माम् । नः॒ । ह॒व्यद्॑आ᳚तिम् । जु॒षा॒णः । देव᳚ । र॒थ॒ । प्रति᳚ । ह॒व्या । गृ॒भा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योरथः इन्द्रस्यवज्रः उक्तप्रकारेणवज्रैकदेशः मरुतांएतत्संज्ञानांदेवगणानांअनीकंअग्रभूतं तद्वत् शीघ्रगामीमित्रस्यअहरभिमानिनोदेव- स्यगर्भोगर्भवदंतर्वर्तमानः अहनिहिरथः संचरति वरुणस्यरात्र्यभिमानिदेवस्यनाभिः नाभिस्थानीयः नाभिर्यथादेहमध्येनैश्चल्येनावतिष्ठ- तेतद्वत् रात्रौक्वचिदेवस्थितः हेदेव द्योतमानरथयउक्तगुणःक् सतादृशस्त्वं इमांनोस्मदीयांहव्यदातिंहविर्दानव तींयागक्रियां जुषाणःसेव- मानः सन् हव्या हव्यान्यस्मदीयानिहवींषि प्रतिगृभाय प्रतिगृहाण ॥ २८ ॥ परेणतृचेनसंग्रामेदुंदुभिरभिमर्शनीयः सूत्रितंच—उपश्वासयपृथिवीमुतद्यामितितृचेनदुंदुभिमभिमृशेदिति ।