श्रवणम्

6.47.3
अ॒यं मे᳚ पी॒त उदि᳚यर्ति॒ वाच᳚म॒यं म᳚नी॒षामु᳚श॒तीम᳚जीगः ।
अ॒यं षळु॒र्वीर᳚मिमीत॒ धीरो॒ न याभ्यो॒ भुव᳚नं॒ कच्च॒नारे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच᳚म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति᳚ ।
अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः᳚ । न । याभ्यः᳚ । भुव᳚नम् । कत् । च॒न । आ॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमःपीतःसन् मेममवाचंउदियर्ति उद्गयति अयमेवसोमउशतींकान्तांमनीषांबुद्धिं उदजीगः उद्गारयति प्रकाशयति गॄनिगरणे- इत्यस्माण्ण्यन्ताल्लुङिचङिरूपं अपिचायंधीरोधीमान् सोमः षळुर्वीः षण्मोर्वींरहसस्पान्तु द्यौश्चपृथिवीचाहश्चरात्रिश्चापश्चौषधयश्चेति- प्रतिपादिताद्युपृथिव्याद्याः षट् अमिमीत निर्मितवान् याभ्यउर्वीभ्यआरेदूरे विप्रकृष्टेदेशे कच्चन किंचन भुवनंभूतजातं नभवति अपितु- आस्वेवसर्वंभूतजातंवर्ततेतादृशीरुर्वीर्निर्मितवान् ॥ ३ ॥