दि॒वस्पृ᳚थि॒व्याः पर्योज॒ उद्भृ᳚तं॒ वन॒स्पति᳚भ्य॒ः पर्याभृ᳚तं॒ सहः᳚ ।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ᳚त॒मिन्द्र᳚स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ॥
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ᳚त॒मिन्द्र᳚स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ॥
पदपाठः (Word-by-word)
दि॒वः । पृ॒थि॒व्याः । परि᳚ । ओजः᳚ । उत्॑भृ᳚तम् । वन॒स्पति᳚॑भ्यः । परि᳚ । आ॑भृ᳚तम् । सहः᳚ ।
अ॒पाम् । ओ॒ज्मान᳚म् । परि᳚ । गोभिः᳚ । आ॑वृ᳚तम् । इन्द्र᳚स्य । वज्र᳚म् । ह॒विषा᳚ । रथ᳚म् । य॒ज॒ ॥
अ॒पाम् । ओ॒ज्मान᳚म् । परि᳚ । गोभिः᳚ । आ॑वृ᳚तम् । इन्द्र᳚स्य । वज्र᳚म् । ह॒विषा᳚ । रथ᳚म् । य॒ज॒ ॥
सायणभाष्यम् (Sayana Commentary)
दिवोद्युलोकात् पृथिव्याभूमेश्चउद्भ्रुतं उद्धतंसारत्वेनोपात्तं यदोजोबलमस्ति तद्रूपंवनस्पतिविकारत्वात् रथस्यवनस्पतयोहिपृथि- व्याः सारभूताः तेचद्युसंबन्धिभिरुदकैःप्रवृद्धाः अतोरथस्यलोकद्वयसारत्वमुपपन्नं परिःपंचम्यर्थानुवादी अपिच वनस्पतिभ्योवृक्षेभ्यः परिपूर्ववत् आभृतमाहृतंसहोबलरूपं अपामुदकानांओज्मानंप्रेरकं यद्वा ओज्मावेगः अपांवेगइववेगवन्तंगोभिः गोविकारैः चर्मभिः परि- तआवृतं आवेष्टितं इन्द्रस्यवज्रंवज्रैकदेशं श्रूयतेहि—इन्द्रोवृत्रायवज्रमुदयच्छ्त् सत्रेधाव्यभजत् वज्रस्तृतीयंरथस्तृतीयंयूपस्तृतीयमिति । एवंगुणविशिष्टंरथंहविषापुरोडाशादिनाहेअध्वर्यो यजनूनमेषाउत्तराचरथदेवत्यस्यहविषोयाज्यानुवाक्येलिंगादवगंतव्ये ॥ २७ ॥