श्रवणम्

6.47.8
उ॒रुं नो᳚ लो॒कमनु᳚ नेषि वि॒द्वान्त्स्व᳚र्व॒ज्ज्योति॒रभ᳚यं स्व॒स्ति ।
ऋ॒ष्वा त᳚ इन्द्र॒ स्थवि᳚रस्य बा॒हू उप᳚ स्थेयाम शर॒णा बृ॒हन्ता᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । नः॒ । लो॒कम् । अनु᳚ । ने॒षि॒ । वि॒द्वान् । स्व᳚र्॑वत् । ज्योतिः᳚ । अभ᳚यम् । स्व॒स्ति ।
ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि᳚रस्य । बा॒हू इति᳚ । उप᳚ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र विद्वान् जानंस्त्वंउरुं विस्तीर्णंलोकंस्थानंस्वर्गाख्यंनोस्मान् अनुनेषि अनुगमय तथास्वर्वत् सुखवत् अभयंभयर हितंज्योतिश्च- स्वस्तिक्षेमेणअनुनेषि अस्माननुगमय हेइन्द्र स्थाविरस्यस्थूलस्यवृद्धस्यतेतवसंबंधिनौऋष्वादर्शनीयौ बृहन्तामहान्तौ बाहूत्वदीयौहस्तौ- शरणाशरणौरक्षकौरक्षकतयाउपस्थेयाम उपतिष्ठेम सेवेमहि ॥ ८ ॥