की॒रिश्चि॒द्धि त्वा॒ हव᳚ते॒ स्व᳚र्वानृधी॒महि᳚ सध॒माद᳚स्ते अ॒द्य ॥
पदपाठः (Word-by-word)
की॒रिः । चि॒त् । हि । त्वा॒ । हव᳚ते । स्वः᳚॑वान् । ऋ॒धी॒महि᳚ । स॒ध॒॑मादः᳚ । ते॒ । अ॒द्य ॥
सायणभाष्यम् (Sayana Commentary)
हेउग्र उद्गूर्णबलेन्द्र युक्तासोरथेनयुक्ताः हरयोश्वाः तेत्वदीयं विश्ववारं विश्वैर्वरणीयंरथं अर्वाक् अस्मदभिमुखं वहन्तु आनयन्तु हिय- स्मात् स्वर्वान् स्वः सुष्ठु वरणीयंगुणजातं तद्वान् कीरिश्चित् स्तोता भरद्वाजऋषिः त्वा त्वां हवते आह्वयति तस्मात्कारणात् त्वदीयंरथं अभीमुखं वहन्तिइत्यर्थः वयंच अद्येदानीं ते त्वया सधमादः सहमाद्यन्तऋधीमहि समृद्धाभवेम ॥ १ ॥ तृतीयेपर्याच्छावाकस्यप्रोद्रोणइत्येषाशस्त्रयाज्या सूत्रितंच—प्रोद्रोणेहरयः कर्माग्मन्नितियाज्येइति ।