श्रवणम्

6.37.5
इन्द्रो॒ वाज᳚स्य॒ स्थवि᳚रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व᳚र्धतां वृ॒द्धम᳚हाः ।
इन्द्रो᳚ वृ॒त्रं हनि᳚ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ᳚णति॒ तूतु᳚जानः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । वाज᳚स्य । स्थवि᳚रस्य । दा॒ता । इन्द्रः᳚ । गीः॒॑भिः । व॒र्ध॒ता॒म् । वृ॒द्ध॑म᳚हाः ।
इन्द्रः᳚ । वृ॒त्रम् । हनि᳚ष्ठः । अ॒स्तु॒ । सत्वा᳚ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु᳚जानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः स्थविरस्य श्रेष्ठस्य वाजस्यान्नस्य बलस्यवादाताभवतु सचेन्द्रोवृद्धमहाः प्रवृद्धतेजस्कःसन् गीर्भिरस्मदीयाभिः स्तुतिभिः वर्धतांसत्वाशत्रूणांशातयिता सइन्द्रःवृत्रं आवर कंशत्रुंहनिष्ठः इन्तृतमोस्तु भवतु अपिच सूरिःमेरकः सइन्द्रस्तूतुजानस्त्वरमाणःता तानि- धनानि आपृणति अस्मभ्यं प्रयच्छतु ॥ ५ ॥

अपादितइतिपंचर्चेपंचदशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं अपादित्यनुक्रान्तं महाव्रतेनि ष्केवल्ये उक्तोविनियोगः ।