वरि᳚ष्ठो अस्य॒ दक्षि᳚णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित᳚मः ।
यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च᳚ धृष्णो॒ दय᳚से॒ वि सू॒रीन् ॥
यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च᳚ धृष्णो॒ दय᳚से॒ वि सू॒रीन् ॥
पदपाठः (Word-by-word)
वरि᳚ष्ठः । अ॒स्य॒ । दक्षि᳚णाम् । इ॒य॒र्ति॒ । इन्द्रः᳚ । म॒घोना᳚म् । तु॒वि॒कू॒र्मि॑त᳚मः ।
यया᳚ । व॒ज्रि॒॑वः॒ । प॒रि॒॑यासि᳚ । अंहः᳚ । म॒घा । च॒ । धृ॒ष्णो॒ इति᳚ । दय᳚से । वि । सू॒रीन् ॥
यया᳚ । व॒ज्रि॒॑वः॒ । प॒रि॒॑यासि᳚ । अंहः᳚ । म॒घा । च॒ । धृ॒ष्णो॒ इति᳚ । दय᳚से । वि । सू॒रीन् ॥
सायणभाष्यम् (Sayana Commentary)
वरिष्ठउरुतमः तुविकूर्मितमः अतिशयेनबहुविधकर्माइन्द्रः मघोनां मघवतां हविर्लक्षणधनोपेतानांमध्ये अस्ययजमानस्य दक्षिणां यज्ञेदातव्यां इयर्ति प्रेरयति यद्वा मघोनामिति अस्येत्यनेनसमानाधिकरणं वचनव्यत्ययः मघोनोहविष्मतोस्ययजमानस्येत्यर्थः शेषः- प्रत्यक्षकृतः हेवज्रिवोवज्रवन्निन्द्र ययादक्षिणयादत्तया अंहः पापं यज्ञसंबन्धि परियासि विनाशयसि हेषृष्णो धर्षक मघा मघानि धनानि सूरीन् स्तोतृन् पुत्रांश्च ययाच दक्षिणयाविदयसे प्रयच्छसि तादृशीं दक्षिणां प्रेरयसीत्यर्थः ॥ ४ ॥