षष्ठं मण्डलम् - सूक्तम् 27

8 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.27 - सम्पूर्णम्

1 / 8
ऋक्: 6.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
6.27.1 समानपद
किम᳚स्य॒ मदे॒ किम्व᳚स्य पी॒ताविन्द्र॒ः किम᳚स्य स॒ख्ये च᳚कार ।
रणा᳚ वा॒ ये नि॒षदि॒ किं ते अ᳚स्य पु॒रा वि᳚विद्रे॒ किमु॒ नूत᳚नासः ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒स्य॒ । मदे᳚ । किम् । ऊं॒ इति᳚ । अ॒स्य॒ । पी॒तौ । इन्द्रः᳚ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः᳚ । वा॒ । ये । नि॒॑सदि᳚ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति᳚ । नूत᳚नासः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भरद्वाजऋषिः फलविलंबनासहिष्णुःसन् अनयेन्द्रमाक्षिपति अस्यसोमस्य मदेसति इन्द्रः किंचकार कृतवान् किमु किंच अस्यसो- स्य पीतौ पानेसति किंचकार अस्यसोमस्य सख्ये सखित्वे किंचकार पानात्पूर्वं इन्द्रः सोमेनशवसतीत्यर्थः अस्यसोमस्य निषदि गृहे रणावाये स्तोतारःसंति तेस्तोतारः पुरा पूर्वं हेइन्द्र ते त्वत्तः किंविविद्रे किंलेभिरे नूतनासः नूतनाइदानींतनाः स्तोतारश्च किमुलेभिरे ॥ १ ॥

6.27.2
सद᳚स्य॒ मदे॒ सद्व᳚स्य पी॒ताविन्द्र॒ः सद᳚स्य स॒ख्ये च᳚कार ।
रणा᳚ वा॒ ये नि॒षदि॒ सत्ते अ᳚स्य पु॒रा वि᳚विद्रे॒ सदु॒ नूत᳚नासः ॥
▶ पदपाठः (Word-by-word)
सत् । अ॒स्य॒ । मदे᳚ । सत् । ऊं॒ इति᳚ । अ॒स्य॒ । पी॒तौ । इन्द्रः᳚ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः᳚ । वा॒ । ये । नि॒॑सदि᳚ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति᳚ । नूत᳚नासः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवमाक्षिप्तइन्द्रः तस्मै ऋषये ईप्सितं धनं प्रददौ तदनंतरमृषिः इन्द्रसकाशात् संपूर्णकामःसन् पुरा यान्युपालंभप्रतिपादकानिवा- क्यान्युवोच इदानीं तानि निराकरोति इन्द्रः अस्यसोमस्य मदेसत् शुभंकर्मचकार अस्यसोमस्य पीतौ पाने सत् शुभं कर्म चकार अस्य सख्ये सत् शुभं कर्म चकार अस्य सख्ये सत् शुभंचकार येरणावास्तोतारश्च ते निषदिगृहे यज्ञगृहइत्यर्थः पुरा पूर्वं हेइन्द्र ते त्वत्तः सत् शुभं कर्म विविद्रे लेभिरे नूतनासः इदानींतनाः स्तोतारः सदु शुभमेवकर्म लेभिरे ॥ २ ॥

6.27.3
न॒हि नु ते᳚ महि॒मनः᳚ समस्य॒ न म᳚घवन्मघव॒त्त्वस्य᳚ वि॒द्म ।
न राध᳚सोराधसो॒ नूत᳚न॒स्येन्द्र॒ नकि᳚र्ददृश इन्द्रि॒यं ते᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । नु । ते॒ । म॒हि॒मनः᳚ । स॒म॒स्य॒ । न । म॒घ॒॑व॒न् । म॒घ॒व॒त्॑त्वस्य᳚ । वि॒द्म ।
न । राध᳚सः॑राधसः । नूत᳚नस्य । इन्द्र᳚ । नकिः᳚ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन्धनवन्निन्द्र ते त्वदीयस्य समस्य समस्तस्य महिमनोमहिम्नोमहिमानं नहि विद्म वयंनजानीमः नुशब्दःपूरणः तथा मघव- त्त्वस्य त्वदीयस्यधनिकत्त्वस्यच वयं नजानीमः नूतनस्य स्तुत्यस्य राधसोराधसः त्वदीयं सर्वंधनंच नजानीमः सर्वत्रद्वितीयार्थेषष्ठी हेइन्द्र ते त्वदीयं इन्द्रियंसामर्थ्यं नकिर्ददृशे केनापिनद्रुश्यते ॥ ३ ॥

6.27.4
ए॒तत्त्यत्त᳚ इन्द्रि॒यम᳚चेति॒ येनाव᳚धीर्व॒रशि᳚खस्य॒ शेषः᳚ ।
वज्र᳚स्य॒ यत्ते॒ निह᳚तस्य॒ शुष्मा᳚त्स्व॒नाच्चि᳚दिन्द्र पर॒मो द॒दार᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन᳚ । अव᳚धीः । व॒र॑शि᳚खस्य । शेषः᳚ ।
वज्र᳚स्य । यत् । ते॒ । नि॑ह᳚तस्य । शुष्मा᳚त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र येनवीर्येण वरशिखस्य वरशिखोनामकश्चिदसुरः शोषः शोषांसिपुत्रान् शोषइत्यपत्यनामैतत् अवधीरहिंसीः ते त्वदीयमेत- त्त्यत् तदिदमिन्द्रिक्यंवीर्यं अचेति अस्माभिरज्ञायि हेइन्द्र यद्यस्मात् शुष्माद्बलात् निहतस्य प्रेरितस्य त्वदीयवज्ज्र्स्य स्वनाच्चित् ध्वने- रेवपरमः ब्रशिखस्यपुत्राणांमध्ये बलाद्याधिक्येनोत्कृष्टः किश्चित्पुत्रः ददार अदीर्यत ॥ ४ ॥

6.27.5
वधी॒दिन्द्रो᳚ व॒रशि᳚खस्य॒ शेषो᳚॑भ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष᳚न् ।
वृ॒चीव᳚तो॒ यद्ध᳚रियू॒पीया᳚यां॒ हन्पूर्वे॒ अर्धे᳚ भि॒यसाप᳚रो॒ दर्त् ॥
▶ पदपाठः (Word-by-word)
वधी᳚त् । इन्द्रः᳚ । व॒र॑शि᳚खस्य । शेषः᳚ । अ॒भि॒॑आ॒व॒र्तिने᳚ । चा॒य॒मा॒नाय᳚ । शिक्ष᳚न् ।
वृ॒चीव᳚तः । यत् । ह॒रि॒यू॒पीया᳚याम् । हन् । पूर्वे᳚ । अर्धे᳚ । भि॒यसा᳚ । अप᳚रः । दर्त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्तमेवार्थमनयाविवृणोति अयमिन्द्रः चायमानाय चयमानस्यराज्ञःपुत्राय अभ्यावर्तिने एतन्नामकायराज्ञे शिक्षन् ईप्सितानि वसूनि प्रयच्छन् वरशिखस्यासुरस्य शेषः पुत्रान्वधीदवधीदहिंसीत् वरशिखस्यपुत्रान् कथमवधीदित्युच्यते यद्यदा अयमिन्द्रः हरियू- पीयायां हरियूपीयानामकचिन्नदी काचिन्नगरीवा तस्यां पूर्वेअर्धे प्राग्भागेस्थितान् वृचीवतःवृचीवान्नामवरशिखस्यकुलोत्पन्नः पूर्वः तद्गोत्रजान् वरशिखस्यपुत्रान् हन्नवधीत् तदा अपरोपरभागेस्थितोवरशिखस्यश्रेष्ठः पुत्रः भियसा भीत्या दर्त् दीर्णोभूत् ॥ ५ ॥

6.27.6 समानपद
त्रिं॒शच्छ᳚तं व॒र्मिण᳚ इन्द्र सा॒कं य॒व्याव᳚त्यां पुरुहूत श्रव॒स्या ।
वृ॒चीव᳚न्त॒ः शर᳚वे॒ पत्य᳚माना॒ः पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ॥
▶ पदपाठः (Word-by-word)
त्रिं॒शत्॑श᳚तम् । व॒र्मिणः᳚ । इ॒न्द्र॒ । सा॒कम् । य॒व्या॑व᳚त्याम् । पु॒रु॒॑हू॒त॒ । श्र॒व॒स्या ।
वृ॒चीव᳚न्तः । शर᳚वे । पत्य᳚मानाः । पात्रा᳚ । भि॒न्दा॒नाः । नि॒॑अ॒र्थानि᳚ । आ॒य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमुक्तमेवार्थंविवृणोति हेपुरुहूत बहुभिराहूतेन्द्र श्रवस्या श्रवस्यया श्रवोन्नंयशोवा तद्वांछया युद्धे त्वां जित्वा अन्नंप्राप्नुयाम यशोवाप्राप्नुयामेतिकामयमानाः शरवे हिंसायै त्वां हिंसितुमित्यर्थः पत्यमानाअभिपतन्तोभिगच्छन्तः पात्रा पात्राणियज्ञसाधनानि भिन्दाना भिन्दन्तः वर्मिंणः कवचभृतः त्रिंशच्छतं त्रिंशदधिकशतसंख्याकाः वृचीवन्तोवरशिखस्यपुत्राः साकंयुगपदेवयव्यावत्यां पूर्वो- क्तायां हरियूपीयायां न्यर्थानि अर्थशून्यानि आयन्नगच्छन् विनाशंप्रापुरित्यर्थः ॥ ६ ॥

6.27.7
यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू अ॒न्तरू॒ षु चर᳚तो॒ रेरि᳚हाणा ।
स सृञ्ज᳚याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव᳚तो दैववा॒ताय॒ शिक्ष᳚न् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । गावौ᳚ । अ॒रु॒षा । सु॒य॒व॒स्यू इति᳚ सु॒॑य॒व॒स्यू । अ॒न्तः । ऊं॒ इति᳚ । सु । चर᳚तः । रेरि᳚हाणा ।
सः । सृञ्ज᳚याय । तु॒र्वश᳚म् । परा᳚ । अ॒दा॒त् । वृ॒चीव᳚तः । दै॒व॒॑वा॒ताय᳚ । शिक्ष᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुषा अरुषौरोचमानौ सुयवस्यू शोभनतृणानीच्छन्तौ रेरिहाणा लेलिहानौ पुनः पुनर्घासमास्वादयन्तौ यद्वा गतिविशेषंकुर्वन्तौ यस्येन्द्रस्यसंबन्धिनौ गावावश्वौ अन्तर्द्यावापृथिव्योर्मध्येन्तरिक्षे चरतोगच्छतः ऊ सु इतीमौपूरणौ सइन्द्रः सृंजयाय एतन्नामकायरा- ज्ञे तुर्वशं राजानं परादात् प्रददौ किंकुर्वन् वृचीवतोवारशिखान् दैववाताय देववातवंशोत्पन्नायात्यावर्तिनेराज्ञे शिक्षन् वशीकुर्वन् तेषांधनानिप्रयच्छन्नितिवा ॥ ७ ॥

6.27.8
द्व॒या{4} अ᳚ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम᳚तो म॒घवा॒ मह्यं᳚ स॒म्राट् ।
अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द᳚दाति दू॒णाशे॒यं दक्षि᳚णा पार्थ॒वाना᳚म् ॥
▶ पदपाठः (Word-by-word)
द्व॒यान् । अ॒ग्ने॒ । र॒थिनः᳚ । विं॒श॒तिम् । गाः । व॒धू॑म᳚तः । म॒घ॑वा᳚ । मह्य᳚म् । स॒म्॑राट् ।
अ॒भि॒॑आ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒॑नशा᳚ । इ॒यम् । दक्षि᳚णा । पा॒र्थ॒वाना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधुना भरद्वाजः स्वस्मै अभ्यावर्तिनादत्तंधनजातमग्नये प्रकथयति हेअग्ने मघवा धनवान् प्रभूतदानोवा सम्राट् राजसूययाजी चाय- मानश्चयमानस्यपुत्रः अभ्यावर्ती एतदाह्वयोराजा रथिनोरथसहितान् वधूमतः स्त्रीयुक्तान् द्वयान्मिथुनभूतान् विंशतिं विंशतिसंख्या- कान् गाः पशून् मह्यं ददाति प्रायच्छत् पार्थवानां पृथोर्वंशजस्याभ्यावर्तिनोराज्ञः संबन्धिनी पूजार्थं बहुवचनं इयंदक्षिणा दुर्नशा केनापिनाशयितुमशक्याभवति ॥ ८ ॥

आगावइत्यष्टर्चंपंचमंसूक्तंअत्रेयमनुक्रमणिका—आगावोगव्यंद्वितीयैन्द्रीवांत्यश्चपादोत्यानुष्टुप् जागतस्तृचोद्वितीयादिरिति । भरद्वा- जऋषिः इन्द्रोयज्वनइत्याद्यस्तृचोजागतः उपेदमित्यंत्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः कृत्स्नस्यगौर्देवता द्वितीयायाः सूक्तांत्यपादस्यच विकल्पेनेन्द्रोदेवता गवामुपस्थानेएतत्सूक्तं सूत्रितंच—आगावीयमेकइति ।