श्रवणम्

6.27.7
यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू अ॒न्तरू॒ षु चर᳚तो॒ रेरि᳚हाणा ।
स सृञ्ज᳚याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव᳚तो दैववा॒ताय॒ शिक्ष᳚न् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । गावौ᳚ । अ॒रु॒षा । सु॒य॒व॒स्यू इति᳚ सु॒॑य॒व॒स्यू । अ॒न्तः । ऊं॒ इति᳚ । सु । चर᳚तः । रेरि᳚हाणा ।
सः । सृञ्ज᳚याय । तु॒र्वश᳚म् । परा᳚ । अ॒दा॒त् । वृ॒चीव᳚तः । दै॒व॒॑वा॒ताय᳚ । शिक्ष᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुषा अरुषौरोचमानौ सुयवस्यू शोभनतृणानीच्छन्तौ रेरिहाणा लेलिहानौ पुनः पुनर्घासमास्वादयन्तौ यद्वा गतिविशेषंकुर्वन्तौ यस्येन्द्रस्यसंबन्धिनौ गावावश्वौ अन्तर्द्यावापृथिव्योर्मध्येन्तरिक्षे चरतोगच्छतः ऊ सु इतीमौपूरणौ सइन्द्रः सृंजयाय एतन्नामकायरा- ज्ञे तुर्वशं राजानं परादात् प्रददौ किंकुर्वन् वृचीवतोवारशिखान् दैववाताय देववातवंशोत्पन्नायात्यावर्तिनेराज्ञे शिक्षन् वशीकुर्वन् तेषांधनानिप्रयच्छन्नितिवा ॥ ७ ॥