किम᳚स्य॒ मदे॒ किम्व᳚स्य पी॒ताविन्द्र॒ः किम᳚स्य स॒ख्ये च᳚कार ।
रणा᳚ वा॒ ये नि॒षदि॒ किं ते अ᳚स्य पु॒रा वि᳚विद्रे॒ किमु॒ नूत᳚नासः ॥
रणा᳚ वा॒ ये नि॒षदि॒ किं ते अ᳚स्य पु॒रा वि᳚विद्रे॒ किमु॒ नूत᳚नासः ॥
पदपाठः (Word-by-word)
किम् । अ॒स्य॒ । मदे᳚ । किम् । ऊं॒ इति᳚ । अ॒स्य॒ । पी॒तौ । इन्द्रः᳚ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः᳚ । वा॒ । ये । नि॒॑सदि᳚ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति᳚ । नूत᳚नासः ॥
रणाः᳚ । वा॒ । ये । नि॒॑सदि᳚ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति᳚ । नूत᳚नासः ॥
सायणभाष्यम् (Sayana Commentary)
भरद्वाजऋषिः फलविलंबनासहिष्णुःसन् अनयेन्द्रमाक्षिपति अस्यसोमस्य मदेसति इन्द्रः किंचकार कृतवान् किमु किंच अस्यसो- स्य पीतौ पानेसति किंचकार अस्यसोमस्य सख्ये सखित्वे किंचकार पानात्पूर्वं इन्द्रः सोमेनशवसतीत्यर्थः अस्यसोमस्य निषदि गृहे रणावाये स्तोतारःसंति तेस्तोतारः पुरा पूर्वं हेइन्द्र ते त्वत्तः किंविविद्रे किंलेभिरे नूतनासः नूतनाइदानींतनाः स्तोतारश्च किमुलेभिरे ॥ १ ॥