वधी॒दिन्द्रो᳚ व॒रशि᳚खस्य॒ शेषो᳚॑भ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष᳚न् ।
वृ॒चीव᳚तो॒ यद्ध᳚रियू॒पीया᳚यां॒ हन्पूर्वे॒ अर्धे᳚ भि॒यसाप᳚रो॒ दर्त् ॥
वृ॒चीव᳚तो॒ यद्ध᳚रियू॒पीया᳚यां॒ हन्पूर्वे॒ अर्धे᳚ भि॒यसाप᳚रो॒ दर्त् ॥
पदपाठः (Word-by-word)
वधी᳚त् । इन्द्रः᳚ । व॒र॑शि᳚खस्य । शेषः᳚ । अ॒भि॒॑आ॒व॒र्तिने᳚ । चा॒य॒मा॒नाय᳚ । शिक्ष᳚न् ।
वृ॒चीव᳚तः । यत् । ह॒रि॒यू॒पीया᳚याम् । हन् । पूर्वे᳚ । अर्धे᳚ । भि॒यसा᳚ । अप᳚रः । दर्त् ॥
वृ॒चीव᳚तः । यत् । ह॒रि॒यू॒पीया᳚याम् । हन् । पूर्वे᳚ । अर्धे᳚ । भि॒यसा᳚ । अप᳚रः । दर्त् ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वोक्तमेवार्थमनयाविवृणोति अयमिन्द्रः चायमानाय चयमानस्यराज्ञःपुत्राय अभ्यावर्तिने एतन्नामकायराज्ञे शिक्षन् ईप्सितानि वसूनि प्रयच्छन् वरशिखस्यासुरस्य शेषः पुत्रान्वधीदवधीदहिंसीत् वरशिखस्यपुत्रान् कथमवधीदित्युच्यते यद्यदा अयमिन्द्रः हरियू- पीयायां हरियूपीयानामकचिन्नदी काचिन्नगरीवा तस्यां पूर्वेअर्धे प्राग्भागेस्थितान् वृचीवतःवृचीवान्नामवरशिखस्यकुलोत्पन्नः पूर्वः तद्गोत्रजान् वरशिखस्यपुत्रान् हन्नवधीत् तदा अपरोपरभागेस्थितोवरशिखस्यश्रेष्ठः पुत्रः भियसा भीत्या दर्त् दीर्णोभूत् ॥ ५ ॥