षष्ठं मण्डलम् - सूक्तम् 57

6 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रापूषणौ छन्दः: गायत्री

सूक्तम् 6.57 - सम्पूर्णम्

1 / 6
ऋक्: 6.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
6.57.1
इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय᳚ स्व॒स्तये᳚ ।
हु॒वेम॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । नु । पू॒षणा᳚ । व॒यम् । स॒ख्याय᳚ । स्व॒स्तये᳚ ।
हु॒वेम᳚ । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

इतरेतरयोगादिन्द्रपूषन् शब्दयोरुभयत्रद्विवचनं इन्द्रापूषणौदेवौनुअद्यवयंस्वस्तयेसख्यायशोभनायसखित्वाय वाजसातये वाजस्या- न्नस्यबलस्यवासातते संभजनाउयचहुवेम आह्वयाम स्तवाम ॥ १ ॥

6.57.2
सोम᳚म॒न्य उपा᳚सद॒त्पात᳚वे च॒म्वो᳚ः सु॒तम् ।
क॒र॒म्भम॒न्य इ᳚च्छति ॥
▶ पदपाठः (Word-by-word)
सोम᳚म् । अ॒न्यः । उप᳚ । अ॒स॒द॒त् । पात᳚वे । च॒म्वोः᳚ । सु॒तम् ।
क॒र॒म्भम् । अ॒न्यः । इ॒च्छ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चम्वोःअधिषवणफलकयोः सुतमभिषुतंसोमंअन्यः अनयोरेकतरइन्द्रः पातवेपातुंउपासदत् उपसीदति उपगच्छति अन्यएकतरः पूषा- करंभंघृतसिक्तंसत्त्कात्मकंहविः भक्षयितुमिच्छति ॥ २ ॥

6.57.3
अ॒जा अ॒न्यस्य॒ वह्न᳚यो॒ हरी᳚ अ॒न्यस्य॒ सम्भृ᳚ता ।
ताभ्यां᳚ वृ॒त्राणि᳚ जिघ्नते ॥
▶ पदपाठः (Word-by-word)
अ॒जाः । अ॒न्यस्य᳚ । वह्न᳚यः । हरी॒ इति᳚ । अ॒न्यस्य᳚ । सम्॑भृ᳚ता ।
ताभ्या᳚म् । वृ॒त्राणि᳚ । जि॒घ्न॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयोरिन्द्रापूष्णोः अन्यस्यएकस्यपूष्णः अजाः छागाः वह्नयोवाहकाअश्वाः अन्यस्यापरस्येन्दस्यसंभृतासंभृतौसम्यक्पुष्टौ हरीएत- त्संज्ञावश्वौ वाहकौसचेन्द्रः ताभ्यांवृत्राणिशत्रून् जिघ्न ते हन्ति ॥ ३ ॥

6.57.4
यदिन्द्रो॒ अन᳚य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः ।
तत्र᳚ पू॒षाभ᳚व॒त्सचा᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इन्द्रः᳚ । अन᳚यत् । रितः᳚ । म॒हीः । अ॒पः । वृष᳚न्॑तमः ।
तत्र᳚ । पू॒षा । अ॒भ॒व॒त् । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा वृषन्तमः अतिशयेनवर्षिताइन्द्रः परितः परितोगंत्रीर्महीः महतीः अपःवृष्ट्युदकानि अनयत् इमंलोकंप्रापयति तत्रतदानींपूषा- पोषकोदेवः सचाभवत् अस्येन्द्रस्यसहायोभवति ॥ ४ ॥

6.57.5
तां पू॒ष्णः सु᳚म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि᳚व ।
इन्द्र᳚स्य॒ चा र᳚भामहे ॥
▶ पदपाठः (Word-by-word)
ताम् । पू॒ष्णः । सु॒॑म॒तिम् । व॒यम् । वृ॒क्षस्य᳚ । प्र । व॒याम्॑इ᳚व ।
इन्द्र᳚स्य । च॒ । आ । र॒भा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूष्णः पोषकस्यदेवस्यइन्द्रस्यच तांप्रसिद्धांसुमतिंकल्याणींमतिंअनुग्रहबुद्धिं वृक्षस्यमहीरुहस्यप्रवयां प्रकृष्टांदृढांशाखामिववयंआर- भामहे अवलंबामहे आश्रयामहइत्यर्थः ॥ ५ ॥

6.57.6
उत्पू॒षणं᳚ युवामहे॒॑भीशू{4}᳚रिव॒ सार᳚थिः ।
म॒ह्या इन्द्रं᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । पू॒षण᳚म् । यु॒वा॒म॒हे॒ । अ॒भीशू᳚न्॑इव । सार᳚थिः ।
म॒ह्यै । इन्द्र᳚म् । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषणंपोषकंदेवमिन्द्रंचमह्यैमहत्यै स्वस्तयेरक्षार्थंउद्युवामहे उद्योजयामः उद्योजनमाकर्षणं तत्रदृष्टान्तः—सारथिःसूतः अभीशूनिव अभीशून् रश्मीन् अश्वबन्धनार्थान् आकर्षतितद्वत् ॥ ६ ॥

शुक्रंतइतिचतुरृचंनवमंसूक्तं भरद्वाजस्यार्षंपौष्णं द्वितीयाजगती शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—शुक्रंचतुष्कंद्वितीयाजगतीति । वैश्वदेवेद्पर्वणिवैश्वदेवस्यहविषः शुक्रंतइतियाज्या सूत्रितंच—शुक्रंतेअन्यद्यजतंतेअन्यदिहेहवःस्वतवसइति । एकादशिनस्यपौष्ण- स्यपशोर्वपायाएषैवयाज्या सूत्रितंच—शुक्रंतेअन्यद्यजतंतेअन्यत्प्रपथेपथामजनिष्टपूषाइति । अमाभिष्टवेप्येषासूत्रितंच—शुक्रंतेअन्यद्य- जतंतेअन्यदपश्यंगोपामनिपद्यमानमिति ।