षष्ठं मण्डलम् - सूक्तम् 74

4 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: सोमारुद्रौ छन्दः: त्रिष्टुप्

सूक्तम् 6.74 - सम्पूर्णम्

1 / 4
ऋक्: 6.74.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
6.74.1
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्यं१॒᳚ प्र वा᳚मि॒ष्टयो॑र᳚मश्नुवन्तु ।
दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
▶ पदपाठः (Word-by-word)
सोमा᳚रुद्रा । धा॒रये᳚थाम् । अ॒सु॒र्य᳚म् । प्र । वा॒म् । इ॒ष्टयः᳚ । अर᳚म् । अ॒श्नु॒व॒न्तु॒ ।
दमे᳚॑दमे । स॒प्त । रत्ना᳚ । दधा᳚ना । शम् । नः॒ । भू॒त॒म् । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमारुद्रा हे सोमारुद्रौ असुर्यं असुरसंबन्धिबलं अस्मासु धारयेथां किं च दमेदमे सर्वेष्वस्मद्गृहेषु इष्टयोयज्ञाः वां युवां अरमलं पर्याप्तं प्राश्नुवन्तु प्रकर्षेणव्याप्नुवन्तु । अपि च युवां सप्तरत्ना रत्नानि दधाना धारयन्तौ नोस्मभ्यं शं सुखकरौ सुखरूपौ वा भूतं भवतम् । द्विपदे अस्मदीयाय पुत्रादये चतुष्पदे पश्वादये च शं भूतं भवतं ॥ १ ॥

6.74.2
सोमा᳚रुद्रा॒ वि वृ᳚हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय᳚मावि॒वेश᳚ ।
आ॒रे बा᳚धेथां॒ निरृ᳚तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि᳚ सन्तु ॥
▶ पदपाठः (Word-by-word)
सोमा᳚रुद्रा । वि । वृ॒ह॒त॒म् । विषू᳚चीम् । अमी᳚वा । या । नः॒ । गय᳚म् । आ॒॑वि॒वेश᳚ ।
आ॒रे । बा॒धे॒था॒म् । निः॑ऋ᳚तिम् । प॒रा॒चैः । अ॒स्मे इति᳚ । भ॒द्रा । सौ॒श्र॒व॒सानि᳚ । स॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमारुद्रा हे सोमारुद्रौ नोस्माकं गयं गृहं गृहगतंप्राणिजातंवा याअमीवा योरोगआविवेश तांविषूचीं विष्वक् सर्वतो गच्छन्तीं अमीवां विवृहतं वियोजयतम् । अपि च निरृतिमलक्ष्मीं पराचैः पराग्यथाभवति तथा आरे दूरे बाधेथां निवारयतम् । अस्मे अस्माकं भद्रा भद्राणि सौश्रवसानि अन्नानि यशांसि च संतु भवन्तु सुश्रवसौभावः सौश्रवसं श्रवोन्नंयशश्र ॥ २ ॥

6.74.3
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु᳚ भेष॒जानि᳚ धत्तम् ।
अव᳚ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति᳚ त॒नूषु᳚ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ॥
▶ पदपाठः (Word-by-word)
सोमा᳚रुद्रा । यु॒वम् । ए॒तानि᳚ । अ॒स्मे इति᳚ । विश्वा᳚ । त॒नूषु᳚ । भे॒ष॒जानि᳚ । ध॒त्त॒म् ।
अव᳚ । स्य॒त॒म् । मु॒ञ्चत᳚म् । यत् । नः॒ । अस्ति᳚ । त॒नूषु᳚ । ब॒द्धम् । कृ॒तम् । एनः᳚ । अ॒स्मत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमारुद्रा सोमारुद्रौ युवं युवां अस्मे अस्माकं तनूष्वंगेषु एतानि प्रसिद्धानि विश्वा सर्वाणि भेषजानि धत्तं धारयतम् । किं च नोस्माकं तनूष्वंगेषु अस्माभिः कृतं बद्धं च यदेनः पापमस्ति विद्यते तत्पापं अवस्यतं क्षपयतं श्लथयतं शिथिलबन्धं कुरुतमित्यर्थः । अस्मदस्म- त्तोमुंचतंच ॥ ३ ॥

6.74.4 समानपद
ति॒ग्मायु᳚धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ᳚ळतं नः ।
प्र नो᳚ मुञ्चतं॒ वरु᳚णस्य॒ पाशा᳚द्गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ॥
▶ पदपाठः (Word-by-word)
ति॒ग्म॑आ᳚युधौ । ति॒ग्महे᳚ती॒ इति᳚ ति॒ग्म॑हे᳚ती । सु॒॑शेवौ᳚ । सोमा᳚रुद्रा । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ ।
प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु᳚णस्य । पाशा᳚त् । गो॒पा॒यत᳚म् । नः॒ । सु॒॑म॒न॒स्यमा᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोमारुद्रौ तिग्मायुधौ दीप्तधनुष्कौ तिग्महेती तीक्ष्णशरौ सुशेवौ शोभनसुखप्रदौ सुमनस्यमाना शोभनंमनः स्तोत्रमिच्छन्तौ सुमनस्य- मानौ स्तूयमानौ सुमनसौ वा सन्तौ युवां इह लोके नोस्मान् सु अत्यन्तं मृळतं सुखयतं नोस्मान्वरुणस्य पाशात् प्रमुंचतं नोस्मान् गोपायतं आपड्भ्योरक्षतं च ॥ ४ ॥

जीमूतस्येत्येकोनविंशर्चंचतुर्दशंसूक्तं भारद्वाजस्यपायोरार्षं अनुक्रम्यतेच-जीमूतस्येवैकोनापायुर्भारद्वाजः संग्रामांगान्यृक् शोभितु- ष्टाववर्मधनुर्ज्यामार्त्नीइषुधिंजगत्यर्धे सारथिमर्धेरश्मीनश्वान्रथं रथगोपान् जगत्यादि लिंगोक्तदेवताद्वाभ्यामिषूः प्रतोदंहस्तघ्नंद्वाभ्या- मिषूः पराः पंक्त्यादयो लिंगोक्तदेवताः संग्रामाशिषोन्त्यानुष्टुप् ऋजीतआलाक्तेतिचद्वेद्वेइति । रथेतिष्ठन् ब्राह्मणासइतिषष्ठीदशम्यौ जगत्यौ अंत्यायोनःस्वोअरणइत्येषानुष्टुप् ऋजीतेआजंघन्तिआलाक्ताअवसृष्टायोनःस्वइतिपंचानुष्टुभः यत्रबाणाइतिपंक्तिः शिष्टास्त्रि- ष्टुभः आद्ययावर्मस्तूयते द्वितीययाधनुः तृतीययाज्या चतुर्थ्याआर्त्नी पंचम्याइषुधिः अतः पंचानांवर्माद्यादेवताः षष्ठ्याः पूर्वार्धेनसारथिः स्तूयते अतः सोर्धर्चस्तद्देवताकः उत्तरार्धेनरश्मयः स्तूयन्ते सप्तम्याअश्वाः अष्टम्यारथः नवम्यारथगोपाः अतस्तास्तद्देवताकाः ब्राह्मणास- इत्यस्यांब्रह्मणपितृसोम्यद्यावापृथिवीपूषाण् ओलिंगोक्तादेवताः एकादशीद्वादश्याविषुस्तुतिरूपत्वात् इषुदेवताके त्रयोदश्याप्रतोदः चतुर्दश्याहस्तघ्नः पंचदशीषोडश्याविषुदेवताके सप्तदश्यायुद्धभूमिब्रह्मणस्पत्यदितिरूपालिंगोक्तदेवताः अष्टादश्याः कवचसोमवरुण- देवताके सप्तदश्यायुद्धभूमिब्रह्मणस्पत्यदितिरूपालिंगोक्तदेवताः अष्टादश्याः कवचसोमवरुणदेवताः अंत्यायादेवाब्रह्मचदेवता युद्धेअने- नसूक्तेनराजानंसंनाहयेत् तथाचाश्वलायनः-संग्रामेसमुपोह्ळेराजानंसंनाहयेदात्वाहार्षमन्तरेधीतिपश्चाद्रथस्यावस्थायजीमूतस्येवभवति- प्रतीकमितिकवचंप्रयच्छेदुत्तरयाधनुरुत्त रांवाचयेत्स्वयंचतुर्थीजपेत्पंचम्येषुधिंप्रयच्छेदभिप्रवर्तमानेष्ठींसप्तम्याश्वानष्टमीमिषूनवेक्षमाणं वाचयत्यहिरिवभोगैः पर्येतिबाहुमितितलं नह्यमानमिति तथाचावसृष्टापरापतेतीषून्विसर्जयेद्यत्रबाणाः संपतन्तीतियुध्यमानेषुजपेत् संशिष्याद्वेति । अध्यायोपाकरणोत्सर्जनयोर्मंडलांत्यहोमे योनः स्वइत्यषा ।