गावो॒ न व᳚ज्रि॒न्त्स्वमोको॒ अच्छेन्द्रा ग᳚हि प्रथ॒मो य॒ज्ञिया᳚नाम् ॥
पदपाठः (Word-by-word)
गावः᳚ । न । व॒ज्रि॒न् । स्वम् । ओकः᳚ । अच्छ᳚ । इन्द्र᳚ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र अहेळमानोऽक्रुध्यंस्त्वं यज्ञमस्मदीयंउपयाहि उपगच्छ यतः कारणात् तुभ्यंत्वदर्थं सुतासः अभिषुताः इन्द्रवः सोमाः पवन्तेपूय- न्ते दशापवित्रेणशोध्यन्ते हेवज्रिन् वज्रवन्निन्द्र गावोन गावः स्वकीयंगोष्ठमिव स्वंस्वकीयंओकः स्थानंद्रोणकलशादिलक्षणं अच्छाभिमु- ख्येनप्राप्नुवन्तीतिशेषः अतः कारणात् हेइन्द्र यज्ञियानांयज्ञार्हाणांदेवानांमध्येप्रथमोमुख्यस्त्वं आगहि आगच्छ ॥ १ ॥