ह्वया᳚मसि॒ त्वेन्द्र᳚ याह्य॒र्वाङरं᳚ ते॒ सोम᳚स्त॒न्वे᳚ भवाति ।
शत᳚क्रतो मा॒दय᳚स्वा सु॒तेषु॒ प्रास्मा{4} अ᳚व॒ पृत᳚नासु॒ प्र वि॒क्षु ॥
शत᳚क्रतो मा॒दय᳚स्वा सु॒तेषु॒ प्रास्मा{4} अ᳚व॒ पृत᳚नासु॒ प्र वि॒क्षु ॥
पदपाठः (Word-by-word)
ह्वया᳚मसि । त्वा॒ । आ । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । अर᳚म् । ते॒ । सोमः᳚ । त॒न्वे᳚ । भ॒वा॒ति॒ ।
शत᳚क्रतो॒ इति॒ शत᳚॑क्रतो । मा॒दय᳚स्व । सु॒तेषु᳚ । प्र । अ॒स्मान् । अ॒व॒ । पृत᳚नासु । प्र । वि॒क्षु ॥
शत᳚क्रतो॒ इति॒ शत᳚॑क्रतो । मा॒दय᳚स्व । सु॒तेषु᳚ । प्र । अ॒स्मान् । अ॒व॒ । पृत᳚नासु । प्र । वि॒क्षु ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वात्वांह्वयामसिआह्वयामः अतःकारणात् त्वंअवांङस्मदभिमुखःसन् आयाहिआगच्छ अस्मदीयःसोमश्च तेतन्वेतवशरीराय- अरंपर्याप्तंभवातिभवतु त्वदीयंशरीरंयथाभिलाषं तर्पयत्वित्यर्थः हेशतक्रतो बहुविधकर्मन्निन्द्र त्वंचसुतेष्वभिषुतेष्वस्मदीयेषुसोमेषु माद- यस्व तृप्यस्व मदतृप्तियोगे तदनन्तरं पृतनासुसंग्रामेषु अस्मान्प्राव प्रकर्षेणरक्ष नकेवलंपृतनासु किन्तु विक्षुसर्वासुप्रजासु अस्मान्प्राव प्ररक्ष ॥ ५ ॥
प्रत्यस्माइतिचतुरृचमेकोनविंसंसूक्तं भरद्वाजस्यार्षमैन्द्रं चतुर्थीबृहती शिष्टाअनुष्टुभः तथाचानुक्रान्तं—प्रत्यस्मैचतुष्कमानुष्टुभंबृहत्य- न्तमिति । प्रातः सवनेच्छावाकस्यइदमुन्नीयमानसूक्तं सूत्रितंच—प्रत्यस्माइत्युन्नीयमानायानूच्येइति ।