सु॒तः सोमो॒ असु᳚तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य ।
ए॒तं ति᳚तिर्व॒ उप᳚ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि᳚षी॒रा पृ᳚णस्व ॥
ए॒तं ति᳚तिर्व॒ उप᳚ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि᳚षी॒रा पृ᳚णस्व ॥
पदपाठः (Word-by-word)
सु॒तः । सोमः᳚ । असु᳚तात् । इ॒न्द्र॒ । वस्या᳚न् । अ॒यम् । श्रेया᳚न् । चि॒कि॒तुषे᳚ । रणा᳚य ।
ए॒तम् । ति॒ति॒र्वः॒ । उप᳚ । या॒हि॒ । य॒ज्ञम् । तेन᳚ । विश्वाः᳚ । तवि᳚षीः । आ । पृ॒ण॒स्व॒ ॥
ए॒तम् । ति॒ति॒र्वः॒ । उप᳚ । या॒हि॒ । य॒ज्ञम् । तेन᳚ । विश्वाः᳚ । तवि᳚षीः । आ । पृ॒ण॒स्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र सुतोभिषुतोयंसोमः असुतात् अकृताभिषवात् सोमादन्यदीयात् वस्यान् वसीयान् वसुमत्तरःप्रशस्यतरः तथा चिकितुषेविदुषे- अभिज्ञायतुभ्यं रणायरमणीयाय तदर्थं श्रेयान् श्रेष्ठश्चभवति त्वामतिशयेनरमयितेत्यर्थः हेतितिर्वः शत्रूणांतरितरिन्द्र यज्ञंयजनसाधनमेतं सोमंउपयाहि उपगच्छ तेनचसोमेनविश्वास्तविषीः सर्वाणिबलानिआपृणस्व आपरय ॥ ४ ॥