षष्ठं मण्डलम् - सूक्तम् 48

22 ऋचः

ऋषिः: शंयुर्बार्हस्पत्यः (तृणपाणिः) देवता: अग्निः छन्दः: बृहती

सूक्तम् 6.48 - सम्पूर्णम्

1 / 22
ऋक्: 6.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
6.48.1
य॒ज्ञाय᳚ज्ञा वो अ॒ग्नये᳚ गि॒रागि᳚रा च॒ दक्ष᳚से ।
प्रप्र᳚ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञा॑य᳚ज्ञा । वः॒ । अ॒ग्नये᳚ । गि॒रा॑गि᳚रा । च॒ । दक्ष᳚से ।
प्र॑प्र᳚ । व॒यम् । अ॒मृत᳚म् । जा॒त॑वे᳚दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिः श्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथाष्टमोध्यायआरभ्यते । षष्ठमंडलस्यचतुर्थेनुवाकेचत्वारिसूक्तानिव्याकृतानि यज्ञायज्ञेतिद्वाविंशत्यृचंपंमंसूक्तंबृहस्पतिपुत्रस्यशंयोरार्षं अत्रानुक्रम्यते—यज्ञायज्ञाद्भधिकाशंयुस्तृणपाणिकंपृश्निसूक्तंप्रगाथौबृहतीमहासतोबृहतीमहाबार्हतबार्हतौप्रगाथावित्याग्नेय्यःकाकुभः प्र- गाथः पुरउष्णिग्बृहत्यतिजगतीतिमारुत्योत्यास्तिस्रोवासांलिंगोक्तदेवताः काकुभः प्रगाथः पुरउष्णिक् बृहतीतिपौष्ण्योबृहतीमहाबृहती- यवमध्यांत्यानुष्टुप् मारुत्योंत्याद्यावाभूम्योर्वापृश्नेर्वेति । यज्ञायज्ञावइत्येषाबृहती तृतीयद्वादशकात्र्यष्टकेतितल्लक्षणसद्भावात् द्वितीया- सतोबृहती अयुजौजागतौ सतोबृहतीत्युक्तलक्षणोपेतत्वात् तृतीयाचतुर्थीबृहतीसतोबृहत्यौ पंचमीबृहती षष्ठीमहासतोबृहती अष्टाक्षरा- स्त्रयः पादाः द्वादशाक्षरौद्वौपादौसामहासतोबृहती सप्तमीमहाबृहतीअष्टाक्षराश्चत्वारः पादाः एकोद्वादशाक्षरःसामहाबृहती अष्टमीमहा- सतोबृहतीअष्टिनस्त्रयः द्वौजागतौसामहासतोबृहती नवमीबृहतीदशमीसतोबृहती एतादशाग्निदेवत्याः एकादशीककुप् मध्यमोयदिद्वाद- शाक्षरः उभयतोष्टकौद्वौपादौसाककुप् द्वादशीसतोबृहतीत्रयोदशीपुरउष्णिक् आद्योजागतः द्वितीयतृतीयौगायत्रौ सापुरउष्णिक् चतुर्द- शीबृहतीपंचदशीअतिजगतीद्वापंचाशदक्षरा एकादश्याद्याःपंचमरुद्देवताकाः त्रयोदश्यादीनांतिसृणांलिंगोक्ताइन्द्रादयोवादेवताःषोडशी- ककुप् सप्तदशीसतोबृहतीअष्टादशीपुरउष्णिक् एकोनविंशीबृहतीषोळश्यादीनांचतसृणांपूषादेवताविंशीबृहतीएकविंशीयवमध्यामहाबृ- हतीआद्यौद्वावष्टकौतृतीयोद्वादशकः चतुर्थपंचमावष्टकौसायवमध्यामहाबृहतीविंश्येकविंश्योः पृश्निसूक्तमित्युक्तत्वान्मरुतांमातापृश्निर्देव- ताद्वाविंश्यनुष्टुप् साचापिपृश्निदेवत्याद्यावाभूमिदेवत्यावा सूक्तविनियोगोलैंगिकः । आग्निमारुतेयज्ञायज्ञावइत्ययंस्तोत्रियप्रगाथः सूत्रि- तंच—यज्ञायज्ञाकोअग्नयेदेवोवोद्रविणोदाइतिप्रगाथौस्तोत्रियानुरूपाविति ।

हेस्तोतारोवोयूयंयज्ञायज्ञा यज्ञेयज्ञे सर्वेषुयागेषुदक्षसेप्रवृद्धायाग्नये गिरागिरास्तुतिरूपया वाचावाचास्तोत्रंकुरुतेतिशेषः चशब्दो- भिन्नक्रमोवइत्यस्मात्परोद्रष्टव्यः यूयंचस्तोत्रंकुरुत वयमपितमग्निंप्रप्रशंसिपं प्रसमुपोदःपादपूरणइतिप्रशब्दस्यद्विरुक्तिः पादपूरणार्था व्यत्ययेनैकवचनं छान्दसोलुङ् प्रशंसाम कीदृशंअमृतंमरणरहितं जातवेदसंजातानांवेदितारं जातप्रज्ञंजातधनंवा मित्रंन सखिभूतमिव- प्रियंअनुकूलं यद्वा व्यत्ययेनत्वमित्यस्यवसादेशः अग्नयइतिचकर्मणिचतुर्थी क्रियाग्नहणमपिकर्तव्यमितिकर्मणः संप्रदानत्वाच्चशब्दश्चणिति- निपातश्चेदर्थेवर्तते दक्षसइतिचदक्षेर्वृद्धिकर्मणोन्तर्भावितण्यर्थाल्लटिरूपं चणायोगात् निपातैर्यद्यदिहन्तेतिनिघातप्रतिषेधः तत्रायमर्थः- हेस्तोतस्त्वंयज्ञेइममग्निंगिरास्तुत्यादक्षसेचवर्धयसिचेत् वयमपिअमृत्वादिगुणकंतंप्रशंसाम ॥ १ ॥

6.48.2 समानपद
ऊ॒र्जो नपा᳚तं॒ स हि॒नायम᳚स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये ।
भुव॒द्वाजे᳚ष्ववि॒ता भुव᳚द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒॑युः । दाशे᳚म । ह॒व्य॑दा᳚तये ।
भुव᳚त् । वाजे᳚षु । अ॒वि॒ता । भुव᳚त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जोन्नस्यबलस्यवानपातंपुत्रंप्रशंसिषमित्यनुषंगात् प्रशंसामेत्यर्थः हिनेतिनिपातद्वयसमुदायोहीत्यस्यार्थे सहिसखल्वयमग्निः अस्मयु- रस्मान्कामयमानोभवति वयंचहव्यदातये हव्यानांहविषांदेवेभ्योदात्रे तस्मैअग्नयेदाशेम हवींषिदद्याम सचाग्निः वाजेषुसंग्रामेषुअवितार- क्षितावृधोवर्धकश्चास्माकं भुवद्भवतु उतअपिच तनूनांतनयानामस्मत्पुत्राणांचत्रातारक्षिताभवतु ॥ २ ॥

6.48.3 समानपद
वृषा॒ ह्य᳚ग्ने अ॒जरो᳚ म॒हान्वि॒भास्य॒र्चिषा᳚ ।
अज᳚स्रेण शो॒चिषा॒ शोशु᳚चच्छुचे सुदी॒तिभि॒ः सु दी᳚दिहि ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । हि । अ॒ग्ने॒ । अ॒जरः᳚ । म॒हान् । वि॒॑भासि᳚ । अ॒र्चिषा᳚ ।
अज᳚स्रेण । शो॒चिषा᳚ । शोशु᳚चत् । शु॒चे॒ । सु॒दी॒ति॑भिः᳚ । सु । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने वृषावर्षिताकामानांवृष्टेः कर्तावा अजरोजरारहितः महान् गुणैरधिकः एवंभूतस्त्वं अर्चिषादीप्त्याविभासिहि विशेषेणप्रकाश- सेखलु दीप्ताग्ने अजस्रेणअविच्छिन्नेनशोचिषा तेजसाशोशुचत् भृशंदीप्यमानस्त्वं सुदीतिभिःसुदीप्तिभिःसुदीदिहि सुष्ठुअस्मान् दीपय प्रकाशय ॥ ३ ॥

6.48.4 समानपद
म॒हो दे॒वान्यज᳚सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ ।
अ॒र्वाचः᳚ सीं कृणुह्य॒ग्ने॑व᳚से॒ रास्व॒ वाजो॒त वं᳚स्व ॥
▶ पदपाठः (Word-by-word)
म॒हः । दे॒वान् । यज᳚सि । यक्षि᳚ । आ॒नु॒षक् । तव᳚ । क्रत्वा᳚ । उ॒त । दं॒सना᳚ ।
अ॒र्वाचः᳚ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव᳚से । रास्व᳚ । वाजा᳚ । उ॒त । वं॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंमहोमहतोदेवान् यजसि यजमानानांयज्ञेहविर्भिःपूजयसि अतोस्माकमपियज्ञेआनुषक् अनुषक्तंसन्ततंयथाभवतितथायक्षि तान्देवान् यज तदर्थंतवक्रत्वाप्रज्ञया उतापिचदंसनाकर्मणाच सीमितिपरिग्रहार्थीयः तान् सर्वान् देवान् अर्वाचः अस्मदभिमुखान् कृणु- हिकुरु अवसेअस्मद्रक्षणार्थं तथावाजावाजान् हविर्लक्षणान्यन्नानिरास्वतेभ्योदेवेभ्योदेहि उतापिच त्वमपिवंस्वतुभ्यंप्रत्तानिहवींषिसं- भजस्व ॥ ४ ॥

6.48.5
यमापो॒ अद्र᳚यो॒ वना॒ गर्भ᳚मृ॒तस्य॒ पिप्र᳚ति ।
सह᳚सा॒ यो म᳚थि॒तो जाय᳚ते॒ नृभि᳚ः पृथि॒व्या अधि॒ सान᳚वि ॥
▶ पदपाठः (Word-by-word)
यम् । आपः᳚ । अद्र᳚यः । वना᳚ । गर्भ᳚म् । ऋ॒तस्य᳚ । पिप्र᳚ति ।
सह᳚सा । यः । म॒थि॒तः । जाय᳚ते । नृ॑भिः᳚ । पृ॒थि॒व्याः । अधि᳚ । सान᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपोवसतीवर्याख्याः अद्रयोग्रावाणः वनावनानिकाष्ठानिच ऋतस्ययज्ञस्योदकस्यवा गर्भं गर्भवदन्तर्वर्तमानंयमग्निंपिप्रति पूरयन्ति यद्वा आपःसमुद्रियाअद्रयोमेघाः वनान्यरण्यानिच ऋतस्यगर्भंवाडववैद्युतदावरूपेणवर्तमानं यमग्निंपिप्रति पूरयन्ति यश्चाग्निःनृभिर्नेतृभिः ऋत्विग्भिः सहसाबलेनमथितः सन् पृथिव्याअधिभूमेरुपरिसानविसमुच्छ्रितेउत्कृष्टेदेवयजनदेशेजायतेप्रादुर्भवति सत्वंवंस्वेत्यन्वयः यद्वा- यः पप्रावित्यनयासंबन्धः ॥ ५ ॥

6.48.6
आ यः प॒प्रौ भा॒नुना॒ रोद᳚सी उ॒भे धू॒मेन᳚ धावते दि॒वि ।
ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व᳚रु॒षो वृषा श्या॒वा अ᳚रु॒षो वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । यः । प॒प्रौ । भा॒नुना᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । धू॒मेन᳚ । धा॒व॒ते॒ । दि॒वि ।
ति॒रः । तमः᳚ । द॒दृ॒शे॒ । ऊर्म्या᳚सु । आ । श्या॒वासु᳚ । अ॒रु॒षः । वृषा᳚ । आ । श्या॒वाः । अ॒रु॒षः । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः भानुनादीप्त्याउभेरोदसीद्यावापृथिव्यौआपप्रौ आपूरयति सः धूमेनदिविअन्तरिक्षेधावतेगच्छति धूमोहिमेघात्मनापरिणतः सन् अन्तरिक्षेगछति कार्यकारणयोरभेदविवक्षया तद्गमनमग्नावुपचर्यते अपिचायंअरुषः आरोचमानः वृषावर्षिताकामानां एवंगुणको- ग्निःश्यावासुश्याववर्णासुकृष्णासुऊर्म्यासु रात्रिनामैतत् निशासुतमोंधकारंतिरः तिरस्कृत्यआसमंतात् ददृशे दृश्यतेश्यावाः श्याववर्णा- रात्रीश्च आतिष्ठति अरुषोवृषेतिपुनरुक्तिरादरार्थापदपूरणार्थावा ॥ ६ ॥

6.48.7
बृ॒हद्भि᳚रग्ने अ॒र्चिभि᳚ः शु॒क्रेण᳚ देव शो॒चिषा᳚ ।
भ॒रद्वा᳚जे समिधा॒नो य᳚विष्ठ्य रे॒वन्न᳚ः शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ॥
▶ पदपाठः (Word-by-word)
बृ॒हत्॑भिः᳚ । अ॒ग्ने॒ । अ॒र्चि॑भिः᳚ । शु॒क्रेण᳚ । दे॒व॒ । शो॒चिषा᳚ ।
भ॒रत्॑वा᳚जे । स॒म्॑इ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव दानादिगुणयुक्त यविष्ठ्य युवतम शुक्र दीप्ताग्ने शुक्रेण निर्मलेनशोचिषातेजसा भरद्वाजेअस्मद्भातरि समिधानः समिध्यमानस्त्वं बृहद्भिर्महद्भिरर्चिभिः तेजोभिः नोस्मदर्थं रेवत् धनयुक्तंयथाभवतितथादीदिहि दीप्यस्व तथापावक हेशोधकाग्ने द्युमत् द्योतमानेनच- युक्तं यथाभवतितथादीदिहि दीप्यस्व ॥ ७ ॥

6.48.8
विश्वा᳚सां गृ॒हप᳚तिर्वि॒शाम᳚सि॒ त्वम᳚ग्ने॒ मानु᳚षीणाम् ।
श॒तं पू॒र्भिर्य᳚विष्ठ पा॒ह्यंह᳚सः समे॒द्धारं᳚ श॒तं हिमा᳚ः स्तो॒तृभ्यो॒ ये च॒ दद᳚ति ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚साम् । गृ॒ह॑प᳚तिः । वि॒शाम् । असि᳚ । त्वम् । अ॒ग्ने॒ । मानु᳚षीणाम् ।
श॒तम् । पूः॒॑भिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह᳚सः । स॒म्॑ए॒द्धार᳚म् । श॒तम् । हिमाः᳚ । स्तो॒तृ॑भ्यः᳚ । ये । च॒ । दद᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंमानुषीणांमनोरपत्यभूतानां विश्वासांसर्वासांविशांप्रजानांगृहपतिरसि गृहस्वामीभवसि हेयविष्ठ युवतमाग्ने अतस्त्वंशतं- हिमाः शतंहेमन्तान् संवत्सरान् समेद्धारंत्वांसम्यगिद्धं कृतवन्तंमांशतंशतेनशतसंख्याकैः पूर्भिःपालकैः अंहसः पापात् आहन्तुः शत्रोर्वा- पाहिरक्ष येचस्तोतृभ्योददति धनंतवसमिन्धनस्यकर्तरिप्रयच्छन्ति तांश्चपाहि ॥ ८ ॥

6.48.9
त्वं न᳚श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय ।
अ॒स्य रा॒यस्त्वम᳚ग्ने र॒थीर᳚सि वि॒दा गा॒धं तु॒चे तु नः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति᳚ । राधां᳚सि । चो॒द॒य॒ ।
अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसो वाराकाग्ने चित्रोदर्शनीयस्त्वंऊत्यारक्षयासह राधांसिधनानिनोस्मभ्यंचोदय प्रेरय सर्वत्रलोकेपरिदृश्यमानस्यरायोधनस्यत्वरं- थीरसि रंहितानेताभवसि अतःकारणात् अस्मभ्यं धनानिप्रेरयेत्यर्थः अपिच नोस्माकंतुचेअपत्यनामैतत् अपत्यायअपतनहेतुभूताय पुत्रा- दयेगाधं प्रतिष्ठांतुक्षिप्रंविदाः लंभय ॥ ९ ॥

6.48.10
पर्षि᳚ तो॒कं तन᳚यं प॒र्तृभि॒ष्ट्वमद᳚ब्धै॒रप्र᳚युत्वभिः ।
अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नो॑दे᳚वानि॒ ह्वरां᳚सि च ॥
▶ पदपाठः (Word-by-word)
पर्षि᳚ । तो॒कम् । तन᳚यम् । प॒र्तृ॑भिः᳚ । त्वम् । अद᳚ब्धैः । अप्र᳚युत्व॑भिः ।
अग्ने᳚ । हेलां᳚सि । दैव्या᳚ । यु॒यो॒धि॒ । नः॒ । अदे᳚वानि । ह्वरां᳚सि । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं अदब्धैःकेनाप्यहिंसितैः अप्रयुत्वभिः यौतिरत्रपृथग्भावार्थः अपृथग्भूतैः संहतैः पर्तृभिः पालनसाधनैः तोकंपुत्रंतनयंपौत्रं- चपर्षिपालय दैव्यादेवसंबन्धीनिच हेळांसिक्रोधान्नोस्मत्तोयुयोधि पृथक्कुरु अदेवानि मनुष्यसंबन्धीनिच ह्वरांसिहिंसनानिच अस्मत्तः पृथक्कुरु ॥ १० ॥

6.48.11
आ स᳚खायः सब॒र्दुघां᳚ धे॒नुम᳚जध्व॒मुप॒ नव्य᳚सा॒ वचः᳚ ।
सृ॒जध्व॒मन᳚पस्फुराम् ॥
▶ पदपाठः (Word-by-word)
आ । स॒खा॒यः॒ । स॒बः॒॑दुघा᳚म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप᳚ । नव्य᳚सा । वचः᳚ ।
सृ॒जध्व᳚म् । अन᳚प॑स्फुराम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसखायः समानख्यानाअध्वर्यवः सबर्दुघां सबरितिपयसोनाम अमरणहेतुभूतस्यपयसोदोग्ध्रींधेनुंगांआअजध्वं अभिगच्छत प्राप्नुत केनसाधनेन नव्यसानवीयसा नवतरेणवचःवचसा आह्वानरूपेणशब्देन तदनंतरंअनपस्फुरां स्फुरतिर्वधकर्मा अनपबाध्यंतांधेनुंउपसृ- जध्वं वत्सेनोपसृष्टांकुरुत मरुद्देवत्यत्वात् मरुतांयागायपयोदोग्धुमितिशेषः अथवामरुतांमातापृश्न्याख्यामाध्यमिकावाग्धेनुः हेसखायः स्तोतारः सबर्दुघांमरुज्जनहेतुभूतस्यपयसोदोग्ध्रींधेनुंपृश्निंनव्यसानवतरेणवचसास्तोत्रेणउपाजध्वमुपागच्छत अनपस्फुरांअनपबाधनीयां- तांसृजध्वं बन्धनाद्विसृजत मुंचत ईदृशीमहतीधेनुः मरुतांमाताकिमुवक्तव्यंतेषांमाहात्म्यमितिमरुत् स्तुतिः ॥ ११ ॥

6.48.12 समानपद
या शर्धा᳚य॒ मारु᳚ताय॒ स्वभा᳚नवे॒ श्रवो॑मृ᳚त्यु॒ धुक्ष᳚त ।
या मृ᳚ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव᳚री ॥
▶ पदपाठः (Word-by-word)
या । शर्धा᳚य । मारु᳚ताय । स्व॑भा᳚नवे । श्रवः᳚ । अमृ᳚त्यु । धुक्ष᳚त ।
या । मृ॒ळी॒के । म॒रुता᳚म् । तु॒राणा᳚म् । या । सु॒म्नैः । ए॒व॒॑याव᳚री ॥
▶ सायणभाष्यम् (Sayana Commentary)

याधेनुः अमृत्युअमरणहेतुश्रवोन्नंपयोलक्षणंमारुतायमरुत्संघायधुक्षतअधुक्षत् कीदृशाय शर्धायप्रसहनशीलाय स्वभानवेस्वायत्तदीप्त- ये याचतुराणांक्षिप्रकारिणांमरुतांमृळीकेसुखेतत्परावर्तते याचसुम्नैः सुखैर्हेतुभूतैः एवयावरीएवैर्गंतृभिरश्वैः मध्यमस्थानैरुदकैर्वासहया- तीअन्येषामपिसुखार्थंवृष्टिजलैः सहागच्छन्ती तांधेनुंउपाजध्वमितिपूर्वत्रान्वयः अत्रापिपूर्ववन्मरुत्स्तुतिरधिगन्तव्या ॥ १२ ॥

6.48.13
भ॒रद्वा᳚जा॒याव᳚ धुक्षत द्वि॒ता ।
धे॒नुं च᳚ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ॥
▶ पदपाठः (Word-by-word)
भ॒रत्॑वा᳚जाय । अव᳚ । धु॒क्ष॒त॒ । द्वि॒ता ।
धे॒नुम् । च॒ । वि॒श्व॑दो᳚हसम् । इष᳚म् । च॒ । वि॒श्व॑भो᳚जसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः भरद्वाजायास्मद्भात्रेद्विताद्वितयंअवधुक्षत दत्त किंतद्द्वितयं धेनुंचगांच इषंचअन्नंच कीदृशींधेनुं विश्वदोहसं विश्वस्यव्याप्तस्य- बहुलस्यदोग्ध्रीं कीदृशमन्नं विश्वभोजसंसर्वेषांभोगपर्याप्तं ॥ १३ ॥

6.48.14
तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु᳚णमिव मा॒यिन᳚म् ।
अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु᳚ष आ॒दिशे᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । इन्द्र᳚म् । न । सु॒॑क्रतु᳚म् । वरु᳚णम्॑इव । मा॒यिन᳚म् ।
अ॒र्य॒मण᳚म् । न । म॒न्द्रम् । सृ॒प्र॑भो᳚जसम् । विष्णु᳚म् । न । स्तु॒षे॒ । आ॒॑दिशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुद्गण तंतादृशंवःत्वांस्तुषेस्तौमि किमर्थंआदिशे आदेशनाय धनानामतिसर्जनाय प्रदानाय कीदृशंत्वां इन्द्रंनइन्द्रमिव सुक्रतुंसुक- र्माणं वरुणमिवमायिनं मायावन्तंप्रज्ञावन्तंअर्यमणंअर्यमणमिव मन्द्रंस्तुत्यं विष्णुंन विष्णुमिवसृप्रभॊजसं प्रसृप्तधनं यदात्वस्यालिंगो- क्तदेवतास्तदानींनेवशब्दौचशब्दार्थेद्रष्टव्यौ ॥ १४ ॥

6.48.15
त्वे॒षं शर्धो॒ न मारु᳚तं तुवि॒ष्वण्य᳚न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता ।
सं स॒हस्रा॒ कारि᳚षच्चर्ष॒णिभ्य॒ आ{4} आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । शर्धः᳚ । न । मारु᳚तम् । तु॒वि॒॑स्वनि᳚ । अ॒न॒र्वाण᳚म् । पू॒षण᳚म् । सम् । यथा᳚ । श॒ता ।
सम् । स॒हस्रा᳚ । कारि᳚षत् । च॒र्ष॒णि॑भ्यः᳚ । आ । आ॒विः । गू॒ळ्हा । वसु᳚ । क॒र॒त् । सु॒॑वेदा᳚ । नः॒ । वसु᳚ । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेतिसंप्रत्यर्थे नसंप्रतिइदानीं त्वेषंदीप्तंतुविष्वणि बहुस्वनं अनर्वाणंअप्रत्यृतंशत्रुभिरनभिगतं पूषणंपोषकंमारुतंमरुत्संघरूपमीदृशं- शर्धोबलं स्तौमीतिशेषः सचमरुद्गणः यथायेनप्रकारेण शता शतसंख्याकानिधनानिसंसहैवचर्षणिभ्योमनुष्येभ्योस्मभ्यंकारिषत् कुर्यात् आकारः समुच्चये यथावासहस्रासहस्रसंख्याकानिधनानिचसंसहैवकारिषत् कुर्यात् तथास्तौमीतिपूर्वत्रान्वयः अपिच समरुद्गणः गूह्ळा- गूढानि संवृतानिवसुवसूनिधनानिआविष्करत् अस्मभ्यमाविष्करोतु तथावसुवसूनिधनानिसुवेदासुलभानिचनोस्माकंकरत् करोतु यदातुलिंगादियंपौष्णीतदामारुतं शर्धइवत्वेषंपूषणंपूषकमेतत्संज्ञंदेवंस्तौमीतियोजनीयं ॥ १५ ॥

6.48.16
आ मा᳚ पूष॒न्नुप᳚ द्रव॒ शंसि᳚षं॒ नु ते᳚ अपिक॒र्ण आ᳚घृणे ।
अ॒घा अ॒र्यो अरा᳚तयः ॥
▶ पदपाठः (Word-by-word)
आ । मा॒ । पू॒ष॒न् । उप᳚ । द्र॒व॒ । शंसि᳚षम् । नु । ते॒ । अ॒पि॒॑क॒र्णे । आ॒घृ॒णे॒ ।
अ॒घाः । अ॒र्यः । अरा᳚तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् मामांआद्रव रक्षणार्थमभिगच्छ हेआघृणे आगतदीप्ते अघाःआहंत्रीः अर्यः अरीः अभिगंत्रीः अरातयः शत्रुभूताः प्रजाः उपद्रव- बाधस्व उपपूर्वेद्रवतिर्बाधायांवर्तते यथाप्रजांपशून्यजमानस्यउपदोद्रावयति अहंचतेतवअपिकर्णेकर्णावपिगतेसमीपदेशेस्थितः सन् नुक्षिप्रंशंसिषंप्रशंसामि ॥ १६ ॥

6.48.17 समानपद
मा का᳚क॒म्बीर॒मुद्वृ᳚हो॒ वन॒स्पति॒मश᳚स्ती॒र्वि हि नीन᳚शः ।
मोत सूरो॒ अह᳚ ए॒वा च॒न ग्री॒वा आ॒दध᳚ते॒ वेः ॥
▶ पदपाठः (Word-by-word)
मा । का॒क॒म्बीर᳚म् । उत् । वृ॒हः॒ । वन॒स्पति᳚म् । अश᳚स्तीः । वि । हि । नीन᳚शः ।
मा । उ॒त । सूरः᳚ । अह॒रिति᳚ । ए॒व । च॒न । ग्री॒वाः । आ॒॑दध᳚ते । वेरिति॒ वेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः पुत्रपौत्रसहितमात्मानंबहुपक्ष्याश्रयवनस्पतित्वेनरूपयन् तस्यानुद्धारमाशास्ते हेपूषन् माकाकंबीरंकाकानांभर्तारंवनस्पतिंवृ- क्षंमाउद्वृहः उद्धर माबाधस्व पुत्रपौत्रादिभिः सखीभूतैरुपेतंअन्यैश्चबहुभिराश्रितंमांमाहिंसीरित्यर्थः हिशब्दश्चार्थे अशस्तीरशंसनीयाः अशंसनीयस्यदुः खस्यकीर्तयित्रीर्वाशत्रुभूताः प्रजाः विनीनशोहि विनाशयच मोतमाचसूरः प्रेरकः शत्रुः एवएवंमाअहःअस्मान्माहर्षीत् एवमित्यभिसंबन्धात् आख्यातस्योदात्तवत्वाच्चअश्रुतोपियथेत्येतद्वाक्येध्याह्रियते ग्रीवाःगिरन्तिअन्तरवस्थापयन्तिबन्धन्तीतिग्रीवाःदा- मानि यथाव्याधाः वेः पक्षिणोहरणार्थंग्रीवाः दामानिजालरूपाणिआदधते भूम्यांनिदधते तैश्चनिहितैः पक्षिणोहरन्ति एवमस्मान् बन्ध- नोपायैः शत्रर्माहार्षीरित्यर्थः ॥ १७ ॥

6.48.18
दृते᳚रिव ते॑वृ॒कम᳚स्तु स॒ख्यम् ।
अच्छि᳚द्रस्य दध॒न्वत॒ः सुपू᳚र्णस्य दध॒न्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
दृतेः᳚॑इव । ते॒ । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् ।
अच्छि᳚द्रस्य । द॒ध॒न्॑वतः᳚ । सु॑पू᳚र्णस्य । द॒ध॒न्॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् तेतवसख्यंसखित्वंअवृकंबाधकरहितंसर्वदैकरूपेणवर्तमानं अस्माकमस्तुसर्वदाभवतु दृतेरिवयथादृतेस्त्वदीयंसख्यंअविच्छिन्नं- तद्वत् कीदृशोदृतिः अच्छिद्रस्यछिद्ररहितस्यसंश्लिष्टस्यदधन्वतोदधिमतः सुपूर्णस्यदध्नासुष्ठुपुनर्दधन्वतइतिधन्वोधिकत्वद्योतनार्थः ईदृशो- दृतिःसर्वदापूष्णोरथेवर्तते सइववयमपितवसखायोभवेमेत्यृषिराशास्ते ॥ १८ ॥

6.48.19
प॒रो हि मर्त्यै॒रसि᳚ स॒मो दे॒वैरु॒त श्रि॒या ।
अ॒भि ख्य᳚ः पूष॒न्पृत᳚नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ॥
▶ पदपाठः (Word-by-word)
प॒रः । हि । मर्त्यैः᳚ । असि᳚ । स॒मः । दे॒वैः । उ॒त । श्रि॒या ।
अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत᳚नासु । नः॒ । त्वम् । अव᳚ । नू॒नम् । यथा᳚ । पु॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् मत्यैर्मर्त्येभ्योमनुष्येभ्यः परः परस्तात् स्थितोसि श्रियासंपदादेवैरुतसर्वैःदेवैश्चसमः समानोसि अतस्त्वंपृतनासुसंग्रामेषुनो- स्मानभिख्यः अभिपश्य अनुग्रहदृष्ट्याविलोकय यथापुरायेनप्रकारेणपूर्वकालीनान्पुरुषान् ररक्षिथ एवंनूनमद्यइदानींअवअस्मान् रक्ष हीतिपूरणः ॥ १९ ॥

6.48.20
वा॒मी वा॒मस्य᳚ धूतय॒ः प्रणी᳚तिरस्तु सू॒नृता᳚ ।
दे॒वस्य᳚ वा मरुतो॒ मर्त्य᳚स्य वेजा॒नस्य᳚ प्रयज्यवः ॥
▶ पदपाठः (Word-by-word)
वा॒मी । वा॒मस्य᳚ । धू॒त॒यः॒ । प्र॑नी᳚तिः । अ॒स्तु॒ । सू॒नृता᳚ ।
दे॒वस्य᳚ । वा॒ । म॒रु॒तः॒ । मर्त्य᳚स्य । वा॒ । ई॒जा॒नस्य᳚ । प्र॒॑य॒ज्य॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेधूतयः कंपयितारः प्रयज्यवः प्रकर्षेणयष्टव्यामरुतः सासूनृताप्रियसत्यात्मिकामाध्यमिकायुष्मदीयावाक् प्रणीतिरस्तु अस्मदर्थं- धनानांप्रणेत्रीभवतु देवस्यवामर्त्यस्यमनुष्यस्यवाईजानस्य इष्टवतः उभयविधस्यपुरुषस्यवामीप्रशस्तायावाक् वामस्यवननीयस्यधन- स्यप्रणीतिः प्रणेत्री सासूनृतेत्यन्वयः प्रणीतिरस्तुअस्मदर्थं ॥ २० ॥

6.48.21
स॒द्यश्चि॒द्यस्य᳚ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्य᳚ः ।
त्वे॒षं शवो᳚ दधिरे॒ नाम᳚ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । चि॒त् । यस्य᳚ । च॒र्कृ॒तिः । परि᳚ । द्याम् । दे॒वः । न । एति᳚ । सूर्यः᳚ ।
त्वे॒षम् । शवः᳚ । द॒धि॒रे॒ । नाम᳚ । य॒ज्ञिय᳚म् । म॒रुतः᳚ । वृत्र॒॑हम् । शवः᳚ । ज्येष्ठ᳚म् । वृत्र॒॑हम् । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यचमरुद्गणस्यचर्कृतिः कर्मसद्यश्चित् सद्यएव द्यांपर्येति परिगच्छति दिव्यन्तरिक्षेपरितोवर्तते देवोन देवोद्योतमानःसूर्यइव तादृशागणात्मकामरुतः त्वेषंदीप्तंनामशत्रूणांनमयितृ यज्ञियंयज्ञार्हंशवोबलं दधिरेअधारयन् तच्च शवोबलंवृत्रहंवृत्रादेरसुरस्यहन्तु भवति तच्चवृत्रहंशवः ज्येष्ठंसर्वेभ्यः प्रशस्ततमंभवति ॥ २१ ॥

6.48.22
स॒कृद्ध॒ द्यौर᳚जायत स॒कृद्भूमि᳚रजायत ।
पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु᳚ जायते ॥
▶ पदपाठः (Word-by-word)
स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः᳚ । अ॒जा॒य॒त॒ ।
पृश्न्याः᳚ । दु॒ग्धम् । स॒कृत् । पयः᳚ । तत् । अ॒न्यः । न । अनु᳚ । जा॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सकृद्धसकृदेवद्यौरजायत उदपद्यत सकृदुत्पन्नैवस्थिताभवति नपुनस्तस्यांनष्टायांअन्या तत्सदृशीद्यौर्जायते भूमिश्चसकृदेवाजायत पृश्न्याः मरुतांमातुर्गोः पयश्चसकृदेकवारमेवदुग्धं यस्मात्पयसोमरुतोजज्ञिरे पृश्नियैवैपयसोमरुतोजाताइतितैत्तिरीयकम् । यथाद्यावापृथि- व्यौसकृदेवोत्पद्येते एवंपृश्निरपिसकृत् दुग्धेनैवपयसोमरुतोजीजनत् ततःपरंअन्यः पदार्थोनानुजायते तत्सदृशोनोत्पद्यते ॥ २२ ॥

स्तुषेजनमितिपंचदशर्चंषष्ठंसूक्तं भारद्वाजस्यऋजिश्वनआर्षं वैश्वदेवं अंत्याषट्पंचाशदक्षराशक्वरी शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं— स्तुषेपंचोनाऋजिश्वाहवैश्वदेवंहशक्वर्यन्तमिति । व्यूह्ळेदशरात्रेपंचमेहनिइदंवैश्वदेवनिविद्धानं सूत्रितंच—ऋभुर्विभ्वास्तुषेजनमितिवैश्व- देवमिति । आद्यामहानाम्नीव्रतेजप्या ।