श्रवणम्

6.48.21
स॒द्यश्चि॒द्यस्य᳚ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्य᳚ः ।
त्वे॒षं शवो᳚ दधिरे॒ नाम᳚ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । चि॒त् । यस्य᳚ । च॒र्कृ॒तिः । परि᳚ । द्याम् । दे॒वः । न । एति᳚ । सूर्यः᳚ ।
त्वे॒षम् । शवः᳚ । द॒धि॒रे॒ । नाम᳚ । य॒ज्ञिय᳚म् । म॒रुतः᳚ । वृत्र॒॑हम् । शवः᳚ । ज्येष्ठ᳚म् । वृत्र॒॑हम् । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यचमरुद्गणस्यचर्कृतिः कर्मसद्यश्चित् सद्यएव द्यांपर्येति परिगच्छति दिव्यन्तरिक्षेपरितोवर्तते देवोन देवोद्योतमानःसूर्यइव तादृशागणात्मकामरुतः त्वेषंदीप्तंनामशत्रूणांनमयितृ यज्ञियंयज्ञार्हंशवोबलं दधिरेअधारयन् तच्च शवोबलंवृत्रहंवृत्रादेरसुरस्यहन्तु भवति तच्चवृत्रहंशवः ज्येष्ठंसर्वेभ्यः प्रशस्ततमंभवति ॥ २१ ॥