श्रवणम्

6.48.2 समानपद
ऊ॒र्जो नपा᳚तं॒ स हि॒नायम᳚स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये ।
भुव॒द्वाजे᳚ष्ववि॒ता भुव᳚द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒॑युः । दाशे᳚म । ह॒व्य॑दा᳚तये ।
भुव᳚त् । वाजे᳚षु । अ॒वि॒ता । भुव᳚त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जोन्नस्यबलस्यवानपातंपुत्रंप्रशंसिषमित्यनुषंगात् प्रशंसामेत्यर्थः हिनेतिनिपातद्वयसमुदायोहीत्यस्यार्थे सहिसखल्वयमग्निः अस्मयु- रस्मान्कामयमानोभवति वयंचहव्यदातये हव्यानांहविषांदेवेभ्योदात्रे तस्मैअग्नयेदाशेम हवींषिदद्याम सचाग्निः वाजेषुसंग्रामेषुअवितार- क्षितावृधोवर्धकश्चास्माकं भुवद्भवतु उतअपिच तनूनांतनयानामस्मत्पुत्राणांचत्रातारक्षिताभवतु ॥ २ ॥