श्रवणम्

6.48.8
विश्वा᳚सां गृ॒हप᳚तिर्वि॒शाम᳚सि॒ त्वम᳚ग्ने॒ मानु᳚षीणाम् ।
श॒तं पू॒र्भिर्य᳚विष्ठ पा॒ह्यंह᳚सः समे॒द्धारं᳚ श॒तं हिमा᳚ः स्तो॒तृभ्यो॒ ये च॒ दद᳚ति ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚साम् । गृ॒ह॑प᳚तिः । वि॒शाम् । असि᳚ । त्वम् । अ॒ग्ने॒ । मानु᳚षीणाम् ।
श॒तम् । पूः॒॑भिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह᳚सः । स॒म्॑ए॒द्धार᳚म् । श॒तम् । हिमाः᳚ । स्तो॒तृ॑भ्यः᳚ । ये । च॒ । दद᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंमानुषीणांमनोरपत्यभूतानां विश्वासांसर्वासांविशांप्रजानांगृहपतिरसि गृहस्वामीभवसि हेयविष्ठ युवतमाग्ने अतस्त्वंशतं- हिमाः शतंहेमन्तान् संवत्सरान् समेद्धारंत्वांसम्यगिद्धं कृतवन्तंमांशतंशतेनशतसंख्याकैः पूर्भिःपालकैः अंहसः पापात् आहन्तुः शत्रोर्वा- पाहिरक्ष येचस्तोतृभ्योददति धनंतवसमिन्धनस्यकर्तरिप्रयच्छन्ति तांश्चपाहि ॥ ८ ॥