श्रवणम्

6.48.5
यमापो॒ अद्र᳚यो॒ वना॒ गर्भ᳚मृ॒तस्य॒ पिप्र᳚ति ।
सह᳚सा॒ यो म᳚थि॒तो जाय᳚ते॒ नृभि᳚ः पृथि॒व्या अधि॒ सान᳚वि ॥
▶ पदपाठः (Word-by-word)
यम् । आपः᳚ । अद्र᳚यः । वना᳚ । गर्भ᳚म् । ऋ॒तस्य᳚ । पिप्र᳚ति ।
सह᳚सा । यः । म॒थि॒तः । जाय᳚ते । नृ॑भिः᳚ । पृ॒थि॒व्याः । अधि᳚ । सान᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपोवसतीवर्याख्याः अद्रयोग्रावाणः वनावनानिकाष्ठानिच ऋतस्ययज्ञस्योदकस्यवा गर्भं गर्भवदन्तर्वर्तमानंयमग्निंपिप्रति पूरयन्ति यद्वा आपःसमुद्रियाअद्रयोमेघाः वनान्यरण्यानिच ऋतस्यगर्भंवाडववैद्युतदावरूपेणवर्तमानं यमग्निंपिप्रति पूरयन्ति यश्चाग्निःनृभिर्नेतृभिः ऋत्विग्भिः सहसाबलेनमथितः सन् पृथिव्याअधिभूमेरुपरिसानविसमुच्छ्रितेउत्कृष्टेदेवयजनदेशेजायतेप्रादुर्भवति सत्वंवंस्वेत्यन्वयः यद्वा- यः पप्रावित्यनयासंबन्धः ॥ ५ ॥