बृ॒हद्भि᳚रग्ने अ॒र्चिभि᳚ः शु॒क्रेण᳚ देव शो॒चिषा᳚ ।
भ॒रद्वा᳚जे समिधा॒नो य᳚विष्ठ्य रे॒वन्न᳚ः शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ॥
भ॒रद्वा᳚जे समिधा॒नो य᳚विष्ठ्य रे॒वन्न᳚ः शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ॥
पदपाठः (Word-by-word)
बृ॒हत्॑भिः᳚ । अ॒ग्ने॒ । अ॒र्चि॑भिः᳚ । शु॒क्रेण᳚ । दे॒व॒ । शो॒चिषा᳚ ।
भ॒रत्॑वा᳚जे । स॒म्॑इ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
भ॒रत्॑वा᳚जे । स॒म्॑इ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेव दानादिगुणयुक्त यविष्ठ्य युवतम शुक्र दीप्ताग्ने शुक्रेण निर्मलेनशोचिषातेजसा भरद्वाजेअस्मद्भातरि समिधानः समिध्यमानस्त्वं बृहद्भिर्महद्भिरर्चिभिः तेजोभिः नोस्मदर्थं रेवत् धनयुक्तंयथाभवतितथादीदिहि दीप्यस्व तथापावक हेशोधकाग्ने द्युमत् द्योतमानेनच- युक्तं यथाभवतितथादीदिहि दीप्यस्व ॥ ७ ॥