श्रवणम्

6.48.11
आ स᳚खायः सब॒र्दुघां᳚ धे॒नुम᳚जध्व॒मुप॒ नव्य᳚सा॒ वचः᳚ ।
सृ॒जध्व॒मन᳚पस्फुराम् ॥
▶ पदपाठः (Word-by-word)
आ । स॒खा॒यः॒ । स॒बः॒॑दुघा᳚म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप᳚ । नव्य᳚सा । वचः᳚ ।
सृ॒जध्व᳚म् । अन᳚प॑स्फुराम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसखायः समानख्यानाअध्वर्यवः सबर्दुघां सबरितिपयसोनाम अमरणहेतुभूतस्यपयसोदोग्ध्रींधेनुंगांआअजध्वं अभिगच्छत प्राप्नुत केनसाधनेन नव्यसानवीयसा नवतरेणवचःवचसा आह्वानरूपेणशब्देन तदनंतरंअनपस्फुरां स्फुरतिर्वधकर्मा अनपबाध्यंतांधेनुंउपसृ- जध्वं वत्सेनोपसृष्टांकुरुत मरुद्देवत्यत्वात् मरुतांयागायपयोदोग्धुमितिशेषः अथवामरुतांमातापृश्न्याख्यामाध्यमिकावाग्धेनुः हेसखायः स्तोतारः सबर्दुघांमरुज्जनहेतुभूतस्यपयसोदोग्ध्रींधेनुंपृश्निंनव्यसानवतरेणवचसास्तोत्रेणउपाजध्वमुपागच्छत अनपस्फुरांअनपबाधनीयां- तांसृजध्वं बन्धनाद्विसृजत मुंचत ईदृशीमहतीधेनुः मरुतांमाताकिमुवक्तव्यंतेषांमाहात्म्यमितिमरुत् स्तुतिः ॥ ११ ॥