त्वं न᳚श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय ।
अ॒स्य रा॒यस्त्वम᳚ग्ने र॒थीर᳚सि वि॒दा गा॒धं तु॒चे तु नः᳚ ॥
अ॒स्य रा॒यस्त्वम᳚ग्ने र॒थीर᳚सि वि॒दा गा॒धं तु॒चे तु नः᳚ ॥
पदपाठः (Word-by-word)
त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति᳚ । राधां᳚सि । चो॒द॒य॒ ।
अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥
अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेवसो वाराकाग्ने चित्रोदर्शनीयस्त्वंऊत्यारक्षयासह राधांसिधनानिनोस्मभ्यंचोदय प्रेरय सर्वत्रलोकेपरिदृश्यमानस्यरायोधनस्यत्वरं- थीरसि रंहितानेताभवसि अतःकारणात् अस्मभ्यं धनानिप्रेरयेत्यर्थः अपिच नोस्माकंतुचेअपत्यनामैतत् अपत्यायअपतनहेतुभूताय पुत्रा- दयेगाधं प्रतिष्ठांतुक्षिप्रंविदाः लंभय ॥ ९ ॥