श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ॥
पदपाठः (Word-by-word)
श्रु॒ष्टी । र॒यिः । वाजः᳚ । वृ॒त्र॒॑तूर्ये᳚ । दि॒वः । वृ॒ष्टिः । ईड्यः᳚ । री॒तिः । अ॒पाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेसुभग शोभनधनाग्ने विश्वा विश्वानिसर्वाणि सौभगानि धनानि त्वत् त्वत्तः वियन्ति विविधंनिर्गच्छन्ति हिरण्यमूलत्वात् सर्वेषांध- नानां हिरण्यंचाग्नेःसकाशादुत्पन्नं तस्यरेतःपरापतत् तद्धिरण्यमभवदितिश्रुतेः । निर्गमनेदृष्टान्तः—वनिनोनवयाः यथावृक्षात् शाखावि- विधंनिर्गच्छन्ति तद्वत् तथा रयिः पशुसंघश्च त्वत्सकाशादेव श्रुष्ठीक्षिप्रं व्येति निर्गच्छति पशवौवैरयिःपशूनेवावरुन्धइतितैत्तिरीयकम् । वृत्रतूर्ये वृत्राणांशत्रूणांहिंसकेसंग्रामे शत्रून् जेतुं वाजोबलंच त्वत्तोव्येति दिवोन्तरिक्षाद्यावृष्टिः सापि त्वत्तएवव्येति अग्नौप्रास्ताहुतिःस- म्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिर्वृष्टेरन्नंततःप्रजाइतिस्मरणात् ॥ अतस्त्वमीड्यः सर्वैःस्तुत्यःसन् अपामुदकानां रीतिर्गमयि- ताभवसि ॥ १ ॥