श्रवणम्

6.13.4 समानपद
यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि᳚तिं वे॒द्यान᳚ट् ।
विश्वं॒ स दे᳚व॒ प्रति॒ वार᳚मग्ने ध॒त्ते धा॒न्यं१॒᳚ पत्य᳚ते वस॒व्यै᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । गीः॒॑भिः । उ॒क्थैः । य॒ज्ञैः । मर्तः᳚ । नि॑शि᳚तम् । वे॒द्या । आन᳚ट् ।
विश्व᳚म् । सः । दे॒व॒ । प्रति᳚ । वार᳚म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्य᳚म् । पत्य᳚ते । व॒स॒व्यैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहसःसूनो बलस्यपुत्राग्ने ते तव निशितिं तैक्ष्ण्यं योमर्तोमनुष्योयजमानः गीर्भिः स्तुतिभिः उक्थैः शस्त्रैः यज्ञैर्यजनसाधनैः हविर्भि- श्च वेद्या वेद्यायां यज्ञभूमौ आनट् प्रापयति समर्तः हेदेव द्योतमानाग्ने विश्वं सर्वं अरं पर्याप्तं वाशब्दश्चार्थे धान्यंच प्रतिधत्ते प्रतिधारयति वसव्यैर्वसुभिश्चपत्यते संगच्छते ॥ ४ ॥