ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीराग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः ।
कृ॒णोषि॒ यच्छव᳚सा॒ भूरि᳚ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु᳚रये ॥
कृ॒णोषि॒ यच्छव᳚सा॒ भूरि᳚ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु᳚रये ॥
पदपाठः (Word-by-word)
ता । नृ॑भ्यः᳚ । आ । सौ॒श्र॒व॒सा । सु॒॑वीरा᳚ । अग्ने᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । पु॒ष्यसे᳚ । धाः॒ ।
कृ॒णोषि᳚ । यत् । शव᳚सा । भूरि᳚ । प॒श्वः । वयः᳚ । वृका᳚य । अ॒रये᳚ । जसु᳚रये ॥
कृ॒णोषि᳚ । यत् । शव᳚सा । भूरि᳚ । प॒श्वः । वयः᳚ । वृका᳚य । अ॒रये᳚ । जसु᳚रये ॥
सायणभाष्यम् (Sayana Commentary)
हेसहसःसूनो सहसस्पुत्राग्ने सुवीराः शोभनैःपुत्रैरुपेतानि सौश्रवसा सुश्रवांसि शोभनान्यन्नानि ता तानि नृभ्यः शत्रुजनेभ्यः आहृत्य धाः अस्मासुधेहि किमर्थं पुष्यसे पोषार्थं यद्वा नृभ्यः स्तुतीनांनेतृभ्योस्मभ्यं आधेहि आभिमुख्येनप्रयच्छ् शवसा बलेनयुक्तस्त्वं भूरि बहुलं पश्वः संबन्धिदध्यादिलक्षणं यद्वयोन्नं वृकाय आदात्रे जसुरये उपक्षपयित्रे कृणोषि तदन्नमाहृत्यप्रयच्छेत्यर्थः ॥ ५ ॥