श्रवणम्

6.13.2 समानपद
त्वं भगो᳚ न॒ आ हि रत्न᳚मि॒षे परि᳚ज्मेव क्षयसि द॒स्मव᳚र्चाः ।
अग्ने᳚ मि॒त्रो न बृ᳚ह॒त ऋ॒तस्यासि᳚ क्ष॒त्ता वा॒मस्य᳚ देव॒ भूरे᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । भगः᳚ । नः॒ । आ । हि । रत्न᳚म् । इ॒षे । परि᳚ज्मा॑इव । क्ष॒य॒सि॒ । द॒स्म॑व᳚र्चाः ।
अग्ने᳚ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य᳚ । असि᳚ । क्ष॒त्ता । वा॒मस्य᳚ । दे॒व॒ । भूरेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने भगोभजनीयस्त्वं नोस्मभ्यं रत्नं रमणीयंधनं आइषे आगमय प्रयच्छ इण् गतावित्यस्यैतद्रूपं हीतिपूरकः दस्मवर्चाः दर्शनीयदी- प्तिस्त्वं परिज्मेवपरितोगन्तावायुरिव क्षयसि सर्वत्रनिवससि यद्वा क्षयतिरैश्वर्यकर्मा सर्वस्येशिषे हेअग्ने मित्रोन प्रमीतेस्त्रायकोदेवइव बृहतोमहतःऋतस्योदकस्य यज्ञस्यवा क्षत्तासि क्षदतिरत्रदानकर्मा दाताभवसि तथा हेदेव द्योतमानाग्ने भूरेर्बहुलस्य वामस्य वननीयस्य धनस्यच दाताभवसीत्यनुषङ्गः ॥ २ ॥