श्रवणम्

6.13.3
स सत्प᳚ति॒ः शव᳚सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ᳚र्ति॒ वाज᳚म् ।
यं त्वं प्र᳚चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । सत्॑प᳚तिः । शव᳚सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः᳚ । वि । प॒णेः । भ॒र्ति॒ । वाज᳚म् ।
यम् । त्वम् । प्र॒॑चे॒तः॒ । ऋ॒त॒॑जा॒त॒ । रा॒या । स॒॑जोषाः᳚ । नप्त्रा᳚ । अ॒पाम् । हि॒नोषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सत्पतिः सतांपालयिता सपुरुषः वृत्रमावरकंशत्रुं शवसा बलेन हन्ति सचविप्रोमेधावीसन् पणेर्वणिजः एतन्नाम्नोसुरस्य वाज- मन्नं बलंवा बिभर्ति वियुज्यहरति हृग्रहोर्भइतिभत्वं हेप्रचेतः प्रकृष्टज्ञान ऋतजात ऋतमितियज्ञनाम तदर्थंजाताग्ने अपांनप्त्रा नपात- यित्रा पुत्रेण मध्यमस्थानेन वैद्युताग्निना सजोषाः संगतस्त्वं यंपुरुषं राया चतुर्थ्यर्थेतृतीया धनार्थं हिनोषि प्रेरयसि सहन्तीत्यन्वयः ॥ ३ ॥