षष्ठं मण्डलम् - सूक्तम् 31

5 ऋचः

ऋषिः: सुहोत्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.31 - सम्पूर्णम्

1 / 5
ऋक्: 6.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.31.1 समानपद
अभू॒रेको᳚ रयिपते रयी॒णामा हस्त᳚योरधिथा इन्द्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन᳚ये च॒ सूरे॑वो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ॥
▶ पदपाठः (Word-by-word)
अभूः᳚ । एकः᳚ । र॒यि॒॑प॒ते॒ । र॒यी॒णाम् । आ । हस्त᳚योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
वि । तो॒के । अ॒प्॑सु । तन᳚ये । च॒ । सूरे᳚ । अवो᳚चन्त । च॒र्ष॒णयः᳚ । वि॑वा᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरयिपते धनस्यपालकेन्द्र एकः प्रधानभूतस्त्वं रयीणां धनानांस्वामी अभूर्भवसि यद्वा रयीणांरयिपतेइतिसंबन्धः एकोरयिशब्दोनु- वादः यथा गवामसिगोपतिरेकइन्द्रेति तदानीं एकोमुख्यस्त्वंभवसीतियोजनीयं अपिच हेइंद्र त्वं हस्तयोरात्मीययोर्बाह्वोःकृष्टीः प्रजाः आअधिथाः अधत्से सर्वंजगत् तवाज्ञायांवर्ततेइत्यर्थः चर्षणयोमनुष्याः तोके पुत्रे अप्सूदकेषु सूरे शत्रूणांप्रेरके तनये पौत्रेषुच एतेषुनिमि- त्तभूतेषुसत्सु विवाचः विशिष्टाःस्तुतीःव्यवोचन्त विविधंब्रुवन्ति ॥ १ ॥

6.31.2 समानपद
त्वद्भि॒येन्द्र॒ पार्थि᳚वानि॒ विश्वाच्यु᳚ता चिच्च्यावयन्ते॒ रजां᳚सि ।
द्यावा॒क्षामा॒ पर्व᳚तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ᳚यते॒ अज्म॒न्ना ते᳚ ॥
▶ पदपाठः (Word-by-word)
त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि᳚वानि । विश्वा᳚ । अच्यु᳚ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां᳚सि ।
द्यावा॒क्षामा᳚ । पर्व᳚तासः । वना᳚नि । विश्व᳚म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म᳚न् । आ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वत् त्वत्तोभियाभयेन विश्वा विश्वानिव्यापकानि पार्थिवानि पृथिव्यंतरिक्षनाम तत्रभवानि रजांस्युदकानि अच्युताचित् च्यावयितुमशक्यान्यपि च्यावयन्तेमेघाः प्रच्यावयन्ति वर्षन्तीत्यर्थः अपिच हेइन्द्र तेतव अज्मन् आगमनेसति द्यावाक्षामा द्यावापृथि- व्यौ पर्वतासोगिरयोवनानिवृक्षाश्च भयते भयंप्राप्नुवन्ति किंबहुना विश्वं सर्वं दृह्ळं स्थिरं प्राणिजातं भयते बिभेति ॥ २ ॥

6.31.3
त्वं कुत्से᳚ना॒भि शुष्ण᳚मिन्द्रा॒शुषं᳚ युध्य॒ कुय᳚वं॒ गवि᳚ष्टौ ।
दश᳚ प्रपि॒त्वे अध॒ सूर्य᳚स्य मुषा॒यश्च॒क्रमवि᳚वे॒ रपां᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वम् । कुत्से᳚न । अ॒भि । शुष्ण᳚म् । इ॒न्द्र॒ । अ॒शुष᳚म् । यु॒ध्य॒ । कुय᳚वम् । गो॑इ᳚ष्टौ ।
दश᳚ । प्र॒॑पि॒त्वे । अध᳚ । सूर्य᳚स्य । मु॒षा॒यः । च॒क्रम् । अवि᳚वेः । रपां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं कुत्सेनसह अशुषं शोषयितुमशक्यं प्रबलं शुष्णं सर्वस्यशोषकमेतत्संज्ञमसुरं अभियुध्य अभ्ययुध्यः कुत्सस्यसाहाय्यार्थं तेना- सुरेणसहयुद्धंकृतवानसीत्यर्थः तथागविष्टौ गावोबाणाइष्यन्तिगच्छंतियत्रेतिगविष्टिःसंग्रामः तस्मिन् कुयवमेतत्संज्ञमसुरंच दश अदशः हिंसितवानसि दंशदशनेइत्येतस्माच्छान्दसेलोटिरूपं अध अपिच प्रपित्वे प्रपतनेयुद्धे सूर्यस्यचक्रं रथावयवभूतं मुषयः अमुष्णाः तदापभृ- तिसूर्यस्यरतएकचक्रोभूत् तथाचाम्रातं—सप्तयुंजन्तिरथमेकचक्रमिति । एतशाख्यस्यऋषेःसूर्येणसहयुद्धे तत्साहाय्यार्थंआगतइन्द्रःसूर्यस्य- चक्रमपहृतवानित्याख्यातं सूरश्चक्रंप्रवृहज्जात ओजसेतिचनिगमान्तरम् । अपिचरपांसिपापकारीणिरक्षःप्रभृतीनि अविवेः अस्माल्लोकाद- गमयः अवधीरित्यर्थः ॥ ३ ॥

6.31.4
त्वं श॒तान्यव॒ शम्ब᳚रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्यो᳚ः ।
अशि᳚क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु᳚तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ॥
▶ पदपाठः (Word-by-word)
त्वम् । श॒तानि᳚ । अव᳚ । शम्ब᳚रस्य । पुरः᳚ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि᳚ । दस्योः᳚ ।
अशि᳚क्षः । यत्र᳚ । शच्या᳚ । श॒ची॒॑वः॒ । दिवः᳚॑दासाय । सु॒न्व॒ते । सु॒त॒॑क्रे॒ । भ॒रत्॑वा᳚जाय । गृ॒ण॒ते । वसू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं शतानि शतसंख्यानि दस्योरुपक्षपयितुरसुरस्य शंबरस्य एतत्संज्ञस्य पुरः पुरीः अप्रतीनि लिंगव्यत्ययः केनाप्यप्रतिगताः अवजघंथ अवाहन् हेशचीवः प्रज्ञावन् हेसुतक्रे अभिषुतेनसोमेनक्रीतेन्द्र यत्र यस्मिन्काले सुन्वते सोमाभिषवंकुर्वते दिवोदासाय शच्या प्रज्ञाया अशिक्षोधनानिप्रादाः गृणते स्तुवते भरद्वाजायच वसूनिप्रादाः तस्मिन्काले शांबरीः पुरोवजघंथेत्यन्वयः ॥ ४ ॥

6.31.5
स स᳚त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति᳚ष्ठ तुविनृम्ण भी॒मम् ।
या॒हि प्र᳚पथि॒न्नव॒सोप᳚ म॒द्रिक्प्र च᳚ श्रुत श्रावय चर्ष॒णिभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । स॒त्य॒॑स॒त्व॒न् । म॒ह॒ते । रणा᳚य । रथ᳚म् । आ । ति॒ष्ठ॒ । तु॒वि॒॑नृ॒म्ण॒ । भी॒मम् ।
या॒हि । प्र॒॑प॒थि॒न् । अव᳚सा । उप᳚ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णि॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसत्यसत्वन् सत्याः अबाध्याः सत्वानोभटाः यस्यसतथोक्तः हेतुविनृम्ण तुविबहुलंनृम्णं धनंयस्यसतथोक्तः हेताद्रुशेन्द्र सत्वं महते रणाय संग्रामाय तदर्थं भीमं भयंकरं आत्मीयंरथं आतिष्ठ हेप्रपथिन् प्रकृष्टमार्गेन्द्र अवसा रक्षणेनसह तेनचरथेनोपयाह्यागच्छ मद्रिक् मदभिमुखः तथा हेश्रुत विश्रुतेन्द्र चर्षाणिभ्यः प्रजा प्रश्रावयच अस्मान् प्रख्यापयच सर्वासुप्रजासुमध्येअस्मान् प्रख्यातान्कुर्वि- त्यर्थः ॥ ५ ॥

अपूर्व्येतिपंचर्चंनवसंसूक्तं त्रैष्टुभमैन्द्रं द्वितीयेछान्दोमिकेहनिनिष्केवल्येएतत्सूक्तं सूत्रितंच—अपूर्व्यापुरुतमानितांसुतेकीर्तिमिति । महाव्रतेपिनिष्केवल्येअस्यसूक्तस्यविनियोगउक्तः ।