अभू॒रेको᳚ रयिपते रयी॒णामा हस्त᳚योरधिथा इन्द्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन᳚ये च॒ सूरे॑वो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ॥
वि तो॒के अ॒प्सु तन᳚ये च॒ सूरे॑वो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ॥
पदपाठः (Word-by-word)
अभूः᳚ । एकः᳚ । र॒यि॒॑प॒ते॒ । र॒यी॒णाम् । आ । हस्त᳚योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
वि । तो॒के । अ॒प्॑सु । तन᳚ये । च॒ । सूरे᳚ । अवो᳚चन्त । च॒र्ष॒णयः᳚ । वि॑वा᳚चः ॥
वि । तो॒के । अ॒प्॑सु । तन᳚ये । च॒ । सूरे᳚ । अवो᳚चन्त । च॒र्ष॒णयः᳚ । वि॑वा᳚चः ॥
सायणभाष्यम् (Sayana Commentary)
हेरयिपते धनस्यपालकेन्द्र एकः प्रधानभूतस्त्वं रयीणां धनानांस्वामी अभूर्भवसि यद्वा रयीणांरयिपतेइतिसंबन्धः एकोरयिशब्दोनु- वादः यथा गवामसिगोपतिरेकइन्द्रेति तदानीं एकोमुख्यस्त्वंभवसीतियोजनीयं अपिच हेइंद्र त्वं हस्तयोरात्मीययोर्बाह्वोःकृष्टीः प्रजाः आअधिथाः अधत्से सर्वंजगत् तवाज्ञायांवर्ततेइत्यर्थः चर्षणयोमनुष्याः तोके पुत्रे अप्सूदकेषु सूरे शत्रूणांप्रेरके तनये पौत्रेषुच एतेषुनिमि- त्तभूतेषुसत्सु विवाचः विशिष्टाःस्तुतीःव्यवोचन्त विविधंब्रुवन्ति ॥ १ ॥