श्रवणम्

6.31.3
त्वं कुत्से᳚ना॒भि शुष्ण᳚मिन्द्रा॒शुषं᳚ युध्य॒ कुय᳚वं॒ गवि᳚ष्टौ ।
दश᳚ प्रपि॒त्वे अध॒ सूर्य᳚स्य मुषा॒यश्च॒क्रमवि᳚वे॒ रपां᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वम् । कुत्से᳚न । अ॒भि । शुष्ण᳚म् । इ॒न्द्र॒ । अ॒शुष᳚म् । यु॒ध्य॒ । कुय᳚वम् । गो॑इ᳚ष्टौ ।
दश᳚ । प्र॒॑पि॒त्वे । अध᳚ । सूर्य᳚स्य । मु॒षा॒यः । च॒क्रम् । अवि᳚वेः । रपां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं कुत्सेनसह अशुषं शोषयितुमशक्यं प्रबलं शुष्णं सर्वस्यशोषकमेतत्संज्ञमसुरं अभियुध्य अभ्ययुध्यः कुत्सस्यसाहाय्यार्थं तेना- सुरेणसहयुद्धंकृतवानसीत्यर्थः तथागविष्टौ गावोबाणाइष्यन्तिगच्छंतियत्रेतिगविष्टिःसंग्रामः तस्मिन् कुयवमेतत्संज्ञमसुरंच दश अदशः हिंसितवानसि दंशदशनेइत्येतस्माच्छान्दसेलोटिरूपं अध अपिच प्रपित्वे प्रपतनेयुद्धे सूर्यस्यचक्रं रथावयवभूतं मुषयः अमुष्णाः तदापभृ- तिसूर्यस्यरतएकचक्रोभूत् तथाचाम्रातं—सप्तयुंजन्तिरथमेकचक्रमिति । एतशाख्यस्यऋषेःसूर्येणसहयुद्धे तत्साहाय्यार्थंआगतइन्द्रःसूर्यस्य- चक्रमपहृतवानित्याख्यातं सूरश्चक्रंप्रवृहज्जात ओजसेतिचनिगमान्तरम् । अपिचरपांसिपापकारीणिरक्षःप्रभृतीनि अविवेः अस्माल्लोकाद- गमयः अवधीरित्यर्थः ॥ ३ ॥