पु॒रा नू॒नं च᳚ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒ अध्यु᳚क्था॒र्का ॥
पदपाठः (Word-by-word)
पु॒रा । नू॒नम् । च॒ । स्तु॒तयः᳚ । ऋषी᳚णाम् । प॒स्पृ॒ध्रे । इन्द्रे᳚ । अधि᳚ । उ॒क्थ॒॑अ॒र्का ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वे त्वयि पूर्वीर्बत्द्मोगिरः स्तुतयश्च संजग्मुः संगच्छन्तेत्वत् त्तत्वः विभ्वोविभवोविस्तृताःमनीषाः स्तोतॄणांमतयश्च वियन्ति विविधंनिर्गच्छंति शेषःपरोक्षकृतः पुरा पूर्वस्मिन्काले नूनं अद्यच ऋषीणां अतीन्द्रियार्थदर्शिनांभरद्वाजादीनांस्तुतयः स्तोत्राणि इन्द्रे अधि अधिकंपस्पृध्रे अस्पर्धन्त अहमहमिकयाइन्द्रस्यस्तवनेत्वरिताबभूवुरित्यर्थः तथा उक्थार्का उक्थंशस्त्रंतद्रूपाण्यर्काणिअर्चनसाधना- निस्तोत्राणिच पस्पृध्रे अस्पर्धन्त ॥ १ ॥