षष्ठं मण्डलम् - सूक्तम् 66

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: मरुतः छन्दः: त्रिष्टुप्

सूक्तम् 6.66 - सम्पूर्णम्

1 / 11
ऋक्: 6.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.66.1
वपु॒र्नु तच्चि᳚कि॒तुषे᳚ चिदस्तु समा॒नं नाम᳚ धे॒नु पत्य᳚मानम् ।
मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय᳚ स॒कृच्छु॒क्रं दु᳚दुहे॒ पृश्नि॒रूधः᳚ ॥
▶ पदपाठः (Word-by-word)
वपुः᳚ । नु । तत् । चि॒कि॒तुषे᳚ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम᳚ । धे॒नु । पत्य᳚मानम् ।
मर्ते᳚षु । अ॒न्यत् । दो॒हसे᳚ । पी॒पाय᳚ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः᳚ । ऊधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्रसिद्धं समानमेकरूपं मरुतः सर्वदा समानरूपाः तथा च निगमान्तरं-अज्येष्ठासो अकनिष्ठासएतइति । नाम स्थिराणामपि नामकं धेनु प्रीणयितृ पत्यमानं सर्वदा गच्छत् वपुर्मरु तां रूपं चिकितुषे विदुषे स्तोत्रे नु क्षिप्रं अस्तु प्रादुर्भवतु । चिदिति पूरकं किं च तद्रूपं मर्त्येषु मर्त्यलोके अन्यदोषधिवनस्पत्यादिकं दोहसे कामान् दोग्धुं पीपाय आप्याययति । किं च मरुतामेव निर्देशात् पृश्नरन्तरिक्षं सकृत्संवत्सरस्य वर्षासु शुक्रं शुक्लवर्णं ऊधः उदकं दुदुहे क्षरति ॥ १ ॥

6.66.2
ये अ॒ग्नयो॒ न शोशु᳚चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त᳚ ।
अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ॥
▶ पदपाठः (Word-by-word)
ये । अ॒ग्नयः᳚ । न । शोशु᳚चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः᳚ । व॒वृ॒धन्त᳚ ।
अ॒रे॒णवः᳚ । हि॒र॒ण्यया᳚सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये᳚भिः । च॒ । भू॒व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः इधानाः अग्रयो न समिध्यमानाः अग्रयइव शोशुचन् दीप्यन्ते यत् ये मरुतः द्विर्द्विगुणं त्रिस्त्रिगुणं च ववृधन्त इच्छानुरूपं वर्धन्ते । संहितायां दीर्घश्छान्दसः एषां मरुतां रथाः अरेणवो रेणुरहिताः हिरण्ययासो हिरण्मयालंकाराश्च भवन्ति । ते मरुतः नृम्णैर्धनैः पौंस्येभिर्बलैश्च साकं सार्धं भवन् प्रादर्भवन्ति । तथा च निगमान्तरं-ये पृषतीभिरृष्टिभिरिति ॥ २ ॥

6.66.3
रु॒द्रस्य॒ ये मी॒ळ्हुष॒ः सन्ति᳚ पु॒त्रा या{4}श्चो॒ नु दाधृ᳚वि॒र्भर᳚ध्यै ।
वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्नि᳚ः सु॒भ्वे॒३॒᳚ गर्भ॒माधा᳚त् ॥
▶ पदपाठः (Word-by-word)
रु॒द्रस्य᳚ । ये । मी॒ळ्हुषः᳚ । सन्ति᳚ । पु॒त्राः । यान् । चो॒ इति᳚ । नु । दाधृ᳚विः । भर᳚ध्यै ।
वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः᳚ । सु॒॑भ्वे᳚ । गर्भ᳚म् । आ । अ॒धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मीह्ळुषः सेक्तुः रुद्रस्य पुत्रा ये मरुतः सन्ति दाधृविः धरित्री पृश्निरन्तरिक्षं याँश्चोनु याँश्च मरुतोनभरध्यै भर्तुं क्षमा भवति विदेहि सर्व- ज्ञाताहि महो महतामेषां माता सा पृश्निर्मही महती किं च सा पृश्निः सुग्वे नृणां सम्यक् भवनाय गर्भमुदकं आधात् आदधाति ॥ ३ ॥

6.66.4 समानपद
न य ईष᳚न्ते ज॒नुषो॑या॒ न्व१॒᳚न्तः सन्तो᳚॑व॒द्यानि᳚ पुना॒नाः ।
निर्यद्दु॒ह्रे शुच॒यो॑नु॒ जोष॒मनु᳚ श्रि॒या त॒न्व᳚मु॒क्षमा᳚णाः ॥
▶ पदपाठः (Word-by-word)
न । ये । ईष᳚न्ते । ज॒नुषः᳚ । अया᳚ । नु । अ॒न्तरिति᳚ । सन्तः᳚ । अ॒व॒द्यानि᳚ । पु॒ना॒नाः ।
निः । यत् । दु॒ह्रे । शुच᳚यः । अनु᳚ । जोष᳚म् । अनु᳚ । श्रि॒या । त॒न्व᳚म् । उ॒क्षमा᳚णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये प्रसिद्धा मरुतः जनुषो जनान् स्तोतॄन् प्रति अया अयेन मनसा धनेन नेषन्ते नगच्छन्ति । किं तेषां रक्षणीयत्वाभावाद्गमनाभावः नेत्याह अन्तः सन्तः सर्वेषा हृदि वर्तमानाएव अवद्यानि पापानि पुनानाः शोधयन्तः तथा च निगमान्तरं-प्राणावैमरुतःस्वापयइति । अतः सर्वप्राणिनां हृदि वर्तमानानां तेषां गमनं नास्तीति अध्यात्मं प्राणरूपेणावस्थानं दर्शितं भवति । शीघ्रगामित्वं तु तेषामाधिदैव- तरूपेणेति द्रष्टव्यं यद्यदा शुचयो दीप्यमाना मरुतः जोषमनु स्तोतॄणां काममनु निदुह्रे नितरां दुहंत्युदकं तथा श्रिया दीप्त्या अनु अनुग- तास्तन्वं आत्मीयं शरीरं प्रकाशयन्तः उक्षमाणाः भूमिं सिंचन्तो भवन्ति । यद्वा तन्वं विस्तीर्णं यथा भवति तथोक्षमाणा भूमिं सिंचन्तो भवन्तीत्यर्थः ॥ ४ ॥

6.66.5 समानपद
म॒क्षू न येषु᳚ दो॒हसे᳚ चिद॒या आ नाम᳚ धृ॒ष्णु मारु᳚तं॒ दधा᳚नाः ।
न ये स्तौ॒ना अ॒यासो᳚ म॒ह्ना नू चि᳚त्सु॒दानु॒रव᳚ यासदु॒ग्रान् ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । न । येषु᳚ । दो॒हसे᳚ । चि॒त् । अ॒याः । आ । नाम᳚ । घृ॒ष्णु । मारु᳚तम् । दधा᳚नाः ।
न । ये । स्तौ॒नाः । अ॒यासः᳚ । म॒ह्ना । नु । चि॒त् । सु॒॑दानुः᳚ । अव᳚ । या॒स॒त् । उ॒ग्रान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषु प्रसिद्धेषु मरुत्सु धृष्णु धर्षकं मारुतं नाम मरुत्संज्ञकं शस्त्रं आदधानाः उच्चारयन्तः अयाः उपगच्छन्तः स्तोतारः मक्षु क्षिप्रं दोहसे कामान् दोग्धुं क्षमा भवन्ति । नेति संप्रत्यर्थे ये स्तोनाः स्तेनास्तिरोहितावा स्तोतुर्धनानामपहर्तारः अयासो गन्तारो भवन्ति । मह्ना महत्वेन युक्ताश्च भवन्ति । उग्रान् तान् क्रुद्धान् सुदानुः शोभनहविर्दानो यजमानः अवयासत् अवयजते अपगतक्रोधान्करोति नेति संप्रत्यर्थे ॥ ५ ॥

6.66.6
त इदु॒ग्राः शव᳚सा धृ॒ष्णुषे᳚णा उ॒भे यु᳚जन्त॒ रोद᳚सी सु॒मेके᳚ ।
अध᳚ स्मैषु रोद॒सी स्वशो᳚चि॒राम᳚वत्सु तस्थौ॒ न रोकः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । इत् । उ॒ग्राः । शव᳚सा । धृ॒ष्णु॑से᳚नाः । उ॒भे इति᳚ । यु॒ज॒न्त॒ । रोद᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ।
अध᳚ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्व॑शो᳚चिः । आ । अम᳚वत्॑सु । त॒स्थौ॒ । न । रोकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतः उग्राः शवसा बलेन वेगेन युक्ताः धृष्णुषेणा धर्षकसेनाः सुमेके सुरूपे उभे रोदसी द्यावापृथिव्यौ युजन्त योजयन्ति वृष्ट्या पृथिवीं तर्फ्यन्तीत्यभिप्रायः । अध स्म अपि च एषु मरुत्सु रोदसी रुद्रस्य पत्नी माध्यमिकीवाक् स्वशोचिः स्क्दीप्तिर्वर्तते अमवत्सु बलवत्सु तेषु रोको दीप्तिर्बाधको वा नातस्थौ नतिष्ठति न निःसरत्येवेत्यर्थः ॥ ६ ॥

6.66.7
अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर᳚थीः ।
अ॒न॒व॒सो अ᳚नभी॒शू र᳚ज॒स्तूर्वि रोद᳚सी प॒थ्या᳚ याति॒ साध᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः᳚ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज᳚ति । अर᳚थीः ।
अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒॑तूः । वि । रोद᳚सी॒ इति᳚ । प॒थ्याः᳚ । या॒ति॒ । साध᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वो युष्माकं संबन्धी यामो रथः अनेनः पापरहितं यथा भवति तथा अस्तु प्रादुर्भवतु । किं च यं यामं अरथीः रथिः सारथिः नरथिः अरथीः असारथिरपि स्तोता अजति प्रेरयति । स रथा अनश्वश्चित् अश्वरहितोपि अनवसः पथ्यदनरहितः अनभीशुः पाशर- हितोपि रजस्तूः उदकस्य प्रेरकः साधन् स्तोतॄणां कामान् साधयन् रोदसी द्यावापृथिव्योपथ्याः पथोन्तरिक्षमार्गान् वियाति विविधं गच्छति ॥ ७ ॥

6.66.8
नास्य᳚ व॒र्ता न त᳚रु॒ता न्व᳚स्ति॒ मरु᳚तो॒ यमव᳚थ॒ वाज᳚सातौ ।
तो॒के वा॒ गोषु॒ तन᳚ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥
▶ पदपाठः (Word-by-word)
न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु᳚तः । यम् । अव᳚थ । वाज᳚॑सातौ ।
तो॒के । वा॒ । गोषु᳚ । तन᳚ये । यम् । अ॒प्॑सु । सः । व्र॒जम् । दर्ता᳚ । पार्ये᳚ । अध᳚ । द्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वाजसातौ संग्रामे यमवथ रक्षथ । अस्य जनस्य वर्ता प्रेरको नास्ति अस्य तरुता नु हिंसिता च नास्ति अध अपि च तोके पुत्रे तनये पौत्रे धने वा गोषु वा अप्सु वा निमित्तभूतेषु यमवथ पार्ये संग्रामे द्योः दीप्तस्यापि विजिगीषोर्वा शत्रोः व्रजं गवां संघं दर्ता दार- यिता भवति ।

6.66.9 समानपद
प्र चि॒त्रम॒र्कं गृ᳚ण॒ते तु॒राय॒ मारु᳚ताय॒ स्वत᳚वसे भरध्वम् ।
ये सहां᳚सि॒ सह᳚सा॒ सह᳚न्ते॒ रेज᳚ते अग्ने पृथि॒वी म॒खेभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय᳚ । मारु᳚ताय । स्व॑त᳚वसे । भ॒र॒ध्व॒म् ।
ये । सहां᳚सि । सह᳚सा । सह᳚न्ते । रेज᳚ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्रे गृणते शब्दं कुर्वते स्तूयमानाय वा तुराय त्वरिताय स्वतवसे स्वभूतबलाय मारुताय मरुतां गणाय चित्रं दर्शनीयं अर्कमन्नं हविः स्वधा अर्क इत्यन्ननामसु पाठात् प्रभरध्वं त्वत्सहायभूता ऋत्विजः त्वं च सर्वे यूयं प्रभरत । यथा लोके बहुष्वेककार्यकरेषु मुख्यमेकं संबोध्य यूयमेवं कुरुतेति प्रार्थना तद्वदत्रापि मुख्यमग्निमेकमेव संबोध्य प्रभरध्वमिति बहुवचनप्रयोगः ये मरुतः सहांसि शत्रूणां बलानि सहसा बलेन सहन्ते अभिभवन्ति । मखेभ्यो मंहनीयेभ्यो मरुद्भ्यो भयात् पृथिवी रेजते कंपते । मारुतायेति तद्धितवृत्तावन्तभूतानामपि मरुतां बुद्व्या प्रविभागात् य इति प्रत्यवमर्शः यथा महाभाष्ये अथ शब्दानुशासनं केषां शब्दानामिति यथा वा लोके राजपुरुषइत्युक्ते कस्य राज्ञ इति ॥ ९ ॥

6.66.10 समानपद
त्विषी᳚मन्तो अध्व॒रस्ये᳚व दि॒द्युत्तृ᳚षु॒च्यव᳚सो जु॒ह्वो॒३॒᳚ नाग्नेः ।
अ॒र्चत्र᳚यो॒ धुन᳚यो॒ न वी॒रा भ्राज᳚ज्जन्मानो म॒रुतो॒ अधृ᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
त्विषि᳚॑मन्तः । अ॒ध्व॒रस्य᳚॑इव । दि॒द्युत् । तृ॒षु॒॑च्यव᳚सः । जु॒ह्वः᳚ । न । अ॒ग्नेः ।
अ॒र्चत्र᳚यः । धुन᳚यः । न । वी॒राः । भ्राज᳚त्॑जन्मानः । म॒रुतः᳚ । अधृ᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः अध्वरस्येव यज्ञस्येव दिद्युत् द्योतमानाः तृषुच्यवसः क्षिप्रगमनाः अग्नेः जुह्वो न रश्मय इव त्विषीमन्तो दीप्तिमन्तः अर्चत्रयोर्च- नीयाः धुनयो न सपत्नान् कंपयन्त इव वीराः शूराः भ्राजज्जन्मानः दीप्तशरीराः अधृष्टाः परैरनभिभूताश्च भवन्ति ॥ १० ॥

6.66.11 समानपद
तं वृ॒धन्तं॒ मारु᳚तं॒ भ्राज᳚दृष्टिं रु॒द्रस्य᳚ सू॒नुं ह॒वसा वि᳚वासे ।
दि॒वः शर्धा᳚य॒ शुच᳚यो मनी॒षा गि॒रयो॒ नाप᳚ उ॒ग्रा अ᳚स्पृध्रन् ॥
▶ पदपाठः (Word-by-word)
तम् । वृ॒धन्त᳚म् । मारु᳚तम् । भ्राज᳚त्॑ऋष्टिम् । रु॒द्रस्य᳚ । सू॒नुम् । ह॒वसा᳚ । आ । वि॒वा॒से॒ ।
दि॒वः । शर्धा᳚य । शुच᳚यः । म॒नी॒षाः । गि॒रयः᳚ । न । आपः᳚ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं प्रसिद्धं वृधन्तं वर्धमानं भ्राजदृष्टिं भ्राजमानऋष्टिं रुद्रस्य सूनुं पुत्रं मास्र्तं मरुद्रणं हवसा स्तोत्रेण आविवासे परिचरामि । किं च दिवः स्तोतुः शुचयो निर्मलाः मनीषाः स्तुतयः उग्राः उद्रूर्णाः शर्धाय मारुताय बलाय त्वक्षः शर्ध इति बलनामसु पाठात् आपः आमुवन्तः गिरयो न मेघाइव गिरिः व्रज इति मेघनामसु पाठात् अस्षृघ्रन् अस्पर्धन्त ॥ ११ ॥

विश्वेषांव इत्येकादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मैत्रावरुणं तथा चानुक्रम्यते-विश्वेषां मैत्रावरुणमिति सूक्तविनियोगो लैंगिकः मैत्रावरुणे पशौ आयातं मित्रावरुणेति पशुपुरोडाशस्यानुवाक्या सूत्रितं च-आयातंमित्रावरुणासुशस्त्यानोमित्रावरुणाहव्यजुष्टिमिति । व्यूह्वे दशरात्रे सप्तमे हनि प्रउगशस्त्रे प्रयद्वामिति मैत्रावरुणस्तृतीयस्तृचः तथा च सूत्रितं-प्रयद्वां मित्रावरुणास्पूर्धन्नागोमताना सत्यार- थेनेति ।