श्रवणम्

6.66.7
अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर᳚थीः ।
अ॒न॒व॒सो अ᳚नभी॒शू र᳚ज॒स्तूर्वि रोद᳚सी प॒थ्या᳚ याति॒ साध᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः᳚ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज᳚ति । अर᳚थीः ।
अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒॑तूः । वि । रोद᳚सी॒ इति᳚ । प॒थ्याः᳚ । या॒ति॒ । साध᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः वो युष्माकं संबन्धी यामो रथः अनेनः पापरहितं यथा भवति तथा अस्तु प्रादुर्भवतु । किं च यं यामं अरथीः रथिः सारथिः नरथिः अरथीः असारथिरपि स्तोता अजति प्रेरयति । स रथा अनश्वश्चित् अश्वरहितोपि अनवसः पथ्यदनरहितः अनभीशुः पाशर- हितोपि रजस्तूः उदकस्य प्रेरकः साधन् स्तोतॄणां कामान् साधयन् रोदसी द्यावापृथिव्योपथ्याः पथोन्तरिक्षमार्गान् वियाति विविधं गच्छति ॥ ७ ॥