म॒क्षू न येषु᳚ दो॒हसे᳚ चिद॒या आ नाम᳚ धृ॒ष्णु मारु᳚तं॒ दधा᳚नाः ।
न ये स्तौ॒ना अ॒यासो᳚ म॒ह्ना नू चि᳚त्सु॒दानु॒रव᳚ यासदु॒ग्रान् ॥
न ये स्तौ॒ना अ॒यासो᳚ म॒ह्ना नू चि᳚त्सु॒दानु॒रव᳚ यासदु॒ग्रान् ॥
पदपाठः (Word-by-word)
म॒क्षु । न । येषु᳚ । दो॒हसे᳚ । चि॒त् । अ॒याः । आ । नाम᳚ । घृ॒ष्णु । मारु᳚तम् । दधा᳚नाः ।
न । ये । स्तौ॒नाः । अ॒यासः᳚ । म॒ह्ना । नु । चि॒त् । सु॒॑दानुः᳚ । अव᳚ । या॒स॒त् । उ॒ग्रान् ॥
न । ये । स्तौ॒नाः । अ॒यासः᳚ । म॒ह्ना । नु । चि॒त् । सु॒॑दानुः᳚ । अव᳚ । या॒स॒त् । उ॒ग्रान् ॥
सायणभाष्यम् (Sayana Commentary)
येषु प्रसिद्धेषु मरुत्सु धृष्णु धर्षकं मारुतं नाम मरुत्संज्ञकं शस्त्रं आदधानाः उच्चारयन्तः अयाः उपगच्छन्तः स्तोतारः मक्षु क्षिप्रं दोहसे कामान् दोग्धुं क्षमा भवन्ति । नेति संप्रत्यर्थे ये स्तोनाः स्तेनास्तिरोहितावा स्तोतुर्धनानामपहर्तारः अयासो गन्तारो भवन्ति । मह्ना महत्वेन युक्ताश्च भवन्ति । उग्रान् तान् क्रुद्धान् सुदानुः शोभनहविर्दानो यजमानः अवयासत् अवयजते अपगतक्रोधान्करोति नेति संप्रत्यर्थे ॥ ५ ॥