श्रवणम्

6.66.1
वपु॒र्नु तच्चि᳚कि॒तुषे᳚ चिदस्तु समा॒नं नाम᳚ धे॒नु पत्य᳚मानम् ।
मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय᳚ स॒कृच्छु॒क्रं दु᳚दुहे॒ पृश्नि॒रूधः᳚ ॥
▶ पदपाठः (Word-by-word)
वपुः᳚ । नु । तत् । चि॒कि॒तुषे᳚ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम᳚ । धे॒नु । पत्य᳚मानम् ।
मर्ते᳚षु । अ॒न्यत् । दो॒हसे᳚ । पी॒पाय᳚ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः᳚ । ऊधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्रसिद्धं समानमेकरूपं मरुतः सर्वदा समानरूपाः तथा च निगमान्तरं-अज्येष्ठासो अकनिष्ठासएतइति । नाम स्थिराणामपि नामकं धेनु प्रीणयितृ पत्यमानं सर्वदा गच्छत् वपुर्मरु तां रूपं चिकितुषे विदुषे स्तोत्रे नु क्षिप्रं अस्तु प्रादुर्भवतु । चिदिति पूरकं किं च तद्रूपं मर्त्येषु मर्त्यलोके अन्यदोषधिवनस्पत्यादिकं दोहसे कामान् दोग्धुं पीपाय आप्याययति । किं च मरुतामेव निर्देशात् पृश्नरन्तरिक्षं सकृत्संवत्सरस्य वर्षासु शुक्रं शुक्लवर्णं ऊधः उदकं दुदुहे क्षरति ॥ १ ॥