षष्ठं मण्डलम् - सूक्तम् 59

10 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्राग्नी छन्दः: बृहती

सूक्तम् 6.59 - सम्पूर्णम्

1 / 10
ऋक्: 6.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
6.59.1
प्र नु वो᳚चा सु॒तेषु᳚ वां वी॒र्या॒३॒᳚ यानि᳚ च॒क्रथु᳚ः ।
ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश᳚त्रव॒ इन्द्रा᳚ग्नी॒ जीव᳚थो यु॒वम् ॥
▶ पदपाठः (Word-by-word)
प्र । नु । वो॒च॒ । सु॒तेषु᳚ । वा॒म् । वी॒र्या᳚ । यानि᳚ । च॒क्रथुः᳚ ।
ह॒तासः᳚ । वा॒म् । पि॒तरः᳚ । दे॒व॑श᳚त्रवः । इन्द्रा᳚ग्नी॒ इति᳚ । जीव᳚थः । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी यानिवीर्याविर्याणिवीरकर्माणिचक्रथुः कृतवन्तौ युवांसुतेषुअभिषुतेषुसोमेषु अस्मद्यज्ञे वांयुवयोस्तानिवीर्याणि नुक्षिप्रंप्र- वोच प्रवोचंब्रवीमि । तदेववीर्यंदर्शयतिहेइन्द्राग्नी देवशत्रवः देवाः शत्रवःशातयितारोयेषांतादृशाअसुराः पितरःहिंसकाःपीयतिर्हिसा- कर्मा तस्यैतद्रूपं ईदृशाअसुराः वांयुवाभ्यांहतासोहताआसन् युवंयुवांतु जीवथः जीवनवन्तोभवथः असुरैर्नबाधितावितियावत् ॥ १ ॥

6.59.2 समानपद
बळि॒त्था म᳚हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि᳚ष्ठ॒ आ ।
स॒मा॒नो वां᳚ जनि॒ता भ्रात᳚रा यु॒वं य॒मावि॒हेह᳚मातरा ॥
▶ पदपाठः (Word-by-word)
बट् । इ॒त्था । म॒हि॒मा । वा॒म् । इन्द्रा᳚ग्नी॒ इति᳚ । पनि᳚ष्ठः । आ ।
स॒मा॒नः । वा॒म् । ज॒नि॒ता । भ्रात᳚रा । यु॒वम् । य॒मौ । इ॒हेह᳚॑मातरा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी वांयुवयोःमहिमामहत्त्वं इत्थाइत्थंअनेनप्रकारेण बट्सत्यं युष्मद्विषयंयज्जन्म महत्वंप्रतिपाद्यते तत्सर्वंयथार्थमित्यर्थः पनिष्ठःआपनिष्ठः स्तुत्यतमश्चप्रजापतिः समानः एकएव वांयुवयोर्जनिताजनयिता अतोयुवंयुवांभ्रातरौस्थः अपिच यमौयमलौसहोत्पन्नौ इहेहमातराइहचेहचसर्वत्रमाताययोस्तादृशौस्थः अदितिर्ह्यनयोर्मातासैवविस्तीर्णाभूमिरितिइहेहमातरावितिस्तूयते ॥ २ ॥

6.59.3
ओ॒कि॒वांसा᳚ सु॒ते सचा{4}॒ अश्वा॒ सप्ती᳚ इ॒वाद᳚ने ।
इन्द्रा॒ न्व१॒᳚ग्नी अव᳚से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
ओ॒कि॒॑वांसा᳚ । सु॒ते । सचा᳚ । अश्वा᳚ । सप्ती᳚ इ॒वेति॒ सप्ती᳚॑इव । आद᳚ने ।
इन्द्रा᳚ । नु । अ॒ग्नी इति᳚ । अव᳚सा । इ॒ह । व॒ज्रिणा᳚ । व॒यम् । दे॒वा । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी सुतेअभिषुतेसोमेयुवांसचासहओकिवांसाओकिवांसौसमवेतौसंगतौभवतं उच समवायाइत्यस्यैतद्रूपं तत्रदृष्टान्तः— आदनेभक्षणीयेघासेसप्तीइवाश्वा सर्पणशीलावश्वाविव नुअद्यवयंतादृशाविन्द्राइन्द्रौ अग्नीइन्द्राग्नी इहास्मिन्यज्ञेअवसारक्षणेनहेतुनाहवा- महे आह्वयामहे । इतरेतरयोगात् इन्द्रशब्देअग्निशब्देचद्विवचनं कीदृशाविन्द्राग्नी वज्रिणावज्रिणौ आयुधोपेतौ देवादानादिगुणयुक्तौ ॥ ३ ॥

6.59.4 समानपद
य इ᳚न्द्राग्नी सु॒तेषु᳚ वां॒ स्तव॒त्तेष्वृ᳚तावृधा ।
जो॒ष॒वा॒कं वद᳚तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ᳚श्च॒न ॥
▶ पदपाठः (Word-by-word)
यः । इ॒न्द्रा॒ग्नी॒ इति᳚ । सु॒तेषु᳚ । वा॒म् । स्तव᳚त् । तेषु᳚ । ऋ॒त॒॑वृ॒धा॒ ।
जो॒ष॒॑वा॒कम् । वद᳚तः । प॒ज्र॒॑हो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः᳚ । च॒न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋतावृधा ऋतस्यसत्यस्ययज्ञस्यवावर्धयिताराविन्द्राग्नी सुतेष्वभिषुतेषुसोमेषु यःस्तोता वांयुवांस्तव्त् कुत्सितंस्तूयात् तेषुसोमेषु- मध्येजोषवाकंवदतः जोषंजोषयितव्यंप्रीतिहेतुत्वेनकर्तव्यं स्वयमप्रीतिकरंतादृशंवाकंवाक्यंवदतस्तस्यस्तोतुः सोमंहेपज्रहोषिणा पज्रः प्रार्जितः प्रसिद्धः होषोघोषः स्तोत्रंययोस्तादृशौहेदेवौ युवांनभसथोनभक्षयथः चनेतिपादपूरकः अत्रनिरुक्तं—जोषवाकमित्यविज्ञात- नामधेयंजोषयितव्यंभवति । यइन्द्राग्नीसुतेषुवांसोमेषुस्तौतितेष्वृतस्यवर्धयितारौनस्याश्नीथोयोयंजोषवाकंवदतिविजंजयः प्रार्जितहो- षिणौदेवौनतस्याश्नीथइति ॥ ४ ॥

6.59.5
इन्द्रा᳚ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त᳚श्चिकेतति ।
विषू᳚चो॒ अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः᳚ समा॒न आ रथे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । कः । अ॒स्य । वा॒म् । देवौ᳚ । मर्तः᳚ । चि॒के॒त॒ति॒ ।
विषू᳚चः । अश्वा᳚न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः᳚ । स॒मा॒ने । आ । रथे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवौ द्योतमानाविन्द्राग्नी वांयुवयोःअस्यइदंकर्मकोमर्तोमनुष्यः चिकेतति जानीयात् नकोपीत्यर्थः किंतत्कर्म विषूचः नानाअंचतो- गच्छतोअश्वान्त्समानेउभयार्थेएकस्मिन् रथेयुवयोरेकइन्द्रः सूर्यात्मनावर्तमानः युयुजानः तादृशानश्वान् योजयन् आईयते सर्वंजगदभि- गच्छति । यद्वाविषूचोनानारूपान् अश्वान् व्यापकान् रश्मीन् समानेएकरूपेरथेसंवत्सरात्मकेयुयुजानोयोजयन् युवयोरेकः सूर्यात्मा- इन्द्रः आईयतेआगच्छति । एतद्युवयोः कर्मकोयथावज्जानीयादित्यर्थः ॥ ५ ॥

6.59.6
इन्द्रा᳚ग्नी अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः ।
हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव᳚द॒च्चर᳚त्त्रिं॒शत्प॒दा न्य᳚क्रमीत् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । अ॒पात् । इ॒यम् । पूर्वा᳚ । आ । अ॒गा॒त् । प॒त्॑वती᳚भ्यः ।
हि॒त्वी । शिरः᳚ । जि॒ह्वया᳚ । वाव᳚दत् । चर᳚त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी अपात् पादरहिताइयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वाप्रथमाभाविनीसती आगात् आगच्छति । तथाप्राणिनांशिरोहित्वीप्रेरयित्री यद्वाशिरोहित्वात्यत्त्कास्वयमशिरस्कासती जिह्वयाप्राणिस्थयातदीयेनवागिन्द्रियेणवावदत् भृशं- शब्दंकुर्वन्तीचरत् एवंचरन्तीउषात्रिंशत्पदानिअवयवभूतान् त्रिंशन्मुहूर्तान् न्यक्रमीत् एकेनदिवसेनातिक्रामति एतच्चयुवयोः कर्मतत्- कोजानीयादितिपूर्वत्रान्वयः ॥ ६ ॥

6.59.7 समानपद
इन्द्रा᳚ग्नी॒ आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः ।
मा नो᳚ अ॒स्मिन्म᳚हाध॒ने परा᳚ वर्क्तं॒ गवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । आ । हि । त॒न्व॒ते । नरः᳚ । धन्वा᳚नि । बा॒ह्वोः ।
मा । नः॒ । अ॒स्मिन् । म॒हा॒॑ध॒ने । परा᳚ । व॒र्क्त॒म् । गो॑इ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी नरोयोद्धारोमनुष्याः बाह्वोर्हस्तयोः धन्वानिधनूंषिअतन्वतेहि आततज्यानिकुर्वतेहि । युवांचास्मिन् महाधनेजेतव्येनम- हाधनेनोपेतेसंग्रामे गविष्टिषुगवामन्वेषणेषुनोस्मान्मापरावर्क्तं मापरित्यजतं ॥ ७ ॥

6.59.8
इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा अ॒र्यो अरा᳚तयः ।
अप॒ द्वेषां॒स्या कृ᳚तं युयु॒तं सूर्या॒दधि᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । तप᳚न्ति । मा॒ । अ॒घाः । अ॒र्यः । अरा᳚तयः ।
अप᳚ । द्वेषां᳚सि । आ । कृ॒त॒म् । यु॒यु॒तम् । सूर्या᳚त् । अधि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी अघाआहंत्र्यः अर्यः अभिगंत्र्यः अरतयःशत्रुसेनामातपन्तिमांबाधन्ते ताअपाकृतंअपाकुरुतम् । तथाद्वेषांसिद्वेष्टृन् शत्रून् सूर्या- दधि अधिः पंचम्यर्थानुवादकः सूर्यदर्शनात् युयुतंपृथक्कुरुतंचयथातेसूर्यंनपश्यन्तितथाकुरुतं मारयतमित्यर्थः ॥ ८ ॥

6.59.9
इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु᳚ दि॒व्यानि॒ पार्थि᳚वा ।
आ न᳚ इ॒ह प्र य᳚च्छतं र॒यिं वि॒श्वायु᳚पोषसम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । यु॒वोः । अपि᳚ । वसु᳚ । दि॒व्यानि᳚ । पार्थि᳚वा ।
आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु᳚॑पोषसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी युवोर्युवयोः दिव्यानिदिविभवानि पार्थिवापृथिव्यांभवानि लोक्द्वयसंबन्धीनि वसुवसूनि अपिहितानियुवयोरेववर्तन्ते अतः कारणात् इहास्मिन्यज्ञेनोस्मभ्यंरयिंधनंआअभिप्रयच्छतम् । कीदृशंरयिं विश्वायुपोषसं आयवइतिमनुष्यनाम सर्वेषांमनुष्याणां- पोषणायपर्याप्तं यद्वास र्वस्यायुषः पोषणेशक्तं छान्दसोवर्णलोपः ॥ ९ ॥

6.59.10
इन्द्रा᳚ग्नी उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता ।
विश्वा᳚भिर्गी॒र्भिरा ग᳚तम॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । उ॒क्थ॒॑वा॒ह॒सा॒ । स्तोमे᳚भिः । ह॒व॒न॒॑श्रु॒ता॒ ।
विश्वा᳚भिः । गीः॒॑भिः । आ । ग॒त॒म् । अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउक्थवाहसाउक्थैः स्तुतिभिर्वहन्तीयौ हेहवनश्रुता हवनस्यआह्वानस्यश्रोतारौ एवंभूतौ हेइन्द्राग्नी स्तोमेभिः स्तोत्रैः विश्वाभिः सर्वाभिर्गीर्भिः शस्त्ररूपाभिर्वाग्भिश्चहेतुभूताभिरागतमागच्छतम् । किमर्थं अस्यास्मदीयस्यसोमस्यपीतयेपानार्थं ॥ १० ॥

श्नथद्वृत्रमितिपंचदशर्चमेकादशंसूक्तं भरद्वाजस्यार्षमैन्द्राग्नं आदौतिस्त्रस्त्रिष्टुभः चतुर्थ्या द्यानवगायत्र्यः त्रयोदशीत्रिष्टुप् चतुर्दशी- बृहती पंचदश्यनुष्टुप् त्थाचानुक्रान्तं—श्नथत्पंचोनागा यत्रंतुत्रित्रिष्टुबादित्रिष्टुब्बृहत्यनुष्टुबन्तमिति । गतः सूक्तविनियोगः । वरुणप्रघासे- षुऎन्द्राग्नस्यहविषः श्नथदित्येषायाज्या सूत्रितंच—इन्द्राग्नीअवसागतंश्नथद्वृत्रमुतसनोतिवाजमिति ।