श्रवणम्

6.59.6
इन्द्रा᳚ग्नी अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः ।
हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव᳚द॒च्चर᳚त्त्रिं॒शत्प॒दा न्य᳚क्रमीत् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । अ॒पात् । इ॒यम् । पूर्वा᳚ । आ । अ॒गा॒त् । प॒त्॑वती᳚भ्यः ।
हि॒त्वी । शिरः᳚ । जि॒ह्वया᳚ । वाव᳚दत् । चर᳚त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी अपात् पादरहिताइयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वाप्रथमाभाविनीसती आगात् आगच्छति । तथाप्राणिनांशिरोहित्वीप्रेरयित्री यद्वाशिरोहित्वात्यत्त्कास्वयमशिरस्कासती जिह्वयाप्राणिस्थयातदीयेनवागिन्द्रियेणवावदत् भृशं- शब्दंकुर्वन्तीचरत् एवंचरन्तीउषात्रिंशत्पदानिअवयवभूतान् त्रिंशन्मुहूर्तान् न्यक्रमीत् एकेनदिवसेनातिक्रामति एतच्चयुवयोः कर्मतत्- कोजानीयादितिपूर्वत्रान्वयः ॥ ६ ॥