य इ᳚न्द्राग्नी सु॒तेषु᳚ वां॒ स्तव॒त्तेष्वृ᳚तावृधा ।
जो॒ष॒वा॒कं वद᳚तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ᳚श्च॒न ॥
जो॒ष॒वा॒कं वद᳚तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ᳚श्च॒न ॥
पदपाठः (Word-by-word)
यः । इ॒न्द्रा॒ग्नी॒ इति᳚ । सु॒तेषु᳚ । वा॒म् । स्तव᳚त् । तेषु᳚ । ऋ॒त॒॑वृ॒धा॒ ।
जो॒ष॒॑वा॒कम् । वद᳚तः । प॒ज्र॒॑हो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः᳚ । च॒न ॥
जो॒ष॒॑वा॒कम् । वद᳚तः । प॒ज्र॒॑हो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः᳚ । च॒न ॥
सायणभाष्यम् (Sayana Commentary)
हेऋतावृधा ऋतस्यसत्यस्ययज्ञस्यवावर्धयिताराविन्द्राग्नी सुतेष्वभिषुतेषुसोमेषु यःस्तोता वांयुवांस्तव्त् कुत्सितंस्तूयात् तेषुसोमेषु- मध्येजोषवाकंवदतः जोषंजोषयितव्यंप्रीतिहेतुत्वेनकर्तव्यं स्वयमप्रीतिकरंतादृशंवाकंवाक्यंवदतस्तस्यस्तोतुः सोमंहेपज्रहोषिणा पज्रः प्रार्जितः प्रसिद्धः होषोघोषः स्तोत्रंययोस्तादृशौहेदेवौ युवांनभसथोनभक्षयथः चनेतिपादपूरकः अत्रनिरुक्तं—जोषवाकमित्यविज्ञात- नामधेयंजोषयितव्यंभवति । यइन्द्राग्नीसुतेषुवांसोमेषुस्तौतितेष्वृतस्यवर्धयितारौनस्याश्नीथोयोयंजोषवाकंवदतिविजंजयः प्रार्जितहो- षिणौदेवौनतस्याश्नीथइति ॥ ४ ॥