षष्ठं मण्डलम् - सूक्तम् 72

5 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रासोमौ छन्दः: त्रिष्टुप्

सूक्तम् 6.72 - सम्पूर्णम्

1 / 5
ऋक्: 6.72.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.72.1
इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि᳚ प्रथ॒मानि᳚ चक्रथुः ।
यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॒᳚र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । महि᳚ । तत् । वा॒म् । म॒हि॒॑त्वम् । यु॒वम् । म॒हानि᳚ । प्र॒थ॒मानि᳚ । च॒क्र॒थुः॒ ।
यु॒वम् । सूर्य᳚म् । वि॒वि॒दथुः᳚ । यु॒वम् । स्वः᳚ । विश्वा᳚ । तमां᳚सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रासोमा हे इन्द्रासोमौ वां युवयोः तन्महित्वं महत्त्वं महि महत् । किंतदित्यतआह युवं युवां महानि महान्ति प्रथमानि प्रतमानि मुख्यानि वा भूतानि प्रथमइति मुख्यनामप्रतमो भवतीतियास्कः । चक्रथुः अकार्ष्टम् । किंच युवं युवां सूर्यं विविदथुः अलंभयतं च जनान् युवं युवां स्वरुदकं च विविदथुः हेम स्वरित्युदकनामसु पाठात् अपि च विश्वा विश्वानि तमांसि निदश्च निन्दितॄनसुरांश्च अहतं अहिंस्तम् ॥ १ ॥

6.72.2 समानपद
इन्द्रा᳚सोमा वा॒सय᳚थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति᳚षा स॒ह ।
उप॒ द्यां स्क॒म्भथु॒ः स्कम्भ᳚ने॒नाप्र᳚थतं पृथि॒वीं मा॒तरं॒ वि ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । वा॒सय᳚थः । उ॒षस᳚म् । उत् । सूर्य᳚म् । न॒य॒थः॒ । ज्योति᳚षा । स॒ह ।
उप᳚ । द्याम् । स्क॒म्भथुः᳚ । स्कम्भ᳚नेन । अप्र᳚थतम् । पृ॒थि॒वीम् । मा॒तर᳚म् । वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रासोमा हे इन्द्रासोमौ उषसं वासयथः विवासयथः उषसं व्युच्छन्तीं कारयथ इत्यर्थः । किं च सूर्यं ज्योतिषा तेजसा सह उन्नयथः अपि च द्यां दिवं स्कंभनेन स्तंभनहेतुनान्तरिक्षेण मध्ये स्थापितेन उपस्कंभथुः अस्तंभयतं मातरं विश्वस्य मातृभूतां पृथिवीं व्यप्रथतं व्यप्रथयतम् ॥ २ ॥

6.72.3
इन्द्रा᳚सोमा॒वहि᳚म॒पः प᳚रि॒ष्ठां ह॒थो वृ॒त्रमनु᳚ वां॒ द्यौर᳚मन्यत ।
प्रार्णां᳚स्यैरयतं न॒दीना॒मा स᳚मु॒द्राणि᳚ पप्रथुः पु॒रूणि᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमौ । अहि᳚म् । अ॒पः । प॒रि॒॑स्थाम् । ह॒थः । वृ॒त्रम् । अनु᳚ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।
प्र । अर्णां᳚सि । ऐ॒र॒य॒त॒म् । न॒दीना᳚म् । आ । स॒मु॒द्राणि᳚ । प॒प्र॒थुः॒ । पु॒रूणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रासोमौ अहिं जगत् आहन्तारं अपोमेघस्थान्युदकानि परिष्ठां परिवृत्यस्थितं वृत्रं असुरं हथः हतं तदानीं द्यौर्वां युवां अन्वमन्यत् किं च नदीनां अर्णांस्युदकानि प्रैरयतं पुरूणि बहुनि तुवि पुर्विति बहुनामसु पाठात् समुद्राणि उदकस्थानानि आपप्रथुः उदकैरापूरयतं च । अथवा समुन्दन्तीति उदकान्येव समुद्राणि तानि रसेनापूरयतमित्यर्थः तथा च यास्कःसमुद्रः कस्मात्समुद्रवंत्यस्मादापः समभिद्रवं- त्येनमापःसंमोदन्तेस्मिन्भूतानिसमुदकोभवतिसमुनत्तीतिवेति ॥ ३ ॥

6.72.4
इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द᳚धथुर्व॒क्षणा᳚सु ।
ज॒गृ॒भथु॒रन᳚पिनद्धमासु॒ रुश᳚च्चि॒त्रासु॒ जग᳚तीष्व॒न्तः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । प॒क्वम् । आ॒मासु᳚ । अ॒न्तः । नि । गवा᳚म् । इत् । द॒ध॒थुः॒ । व॒क्षणा᳚सु ।
ज॒गृ॒भथुः᳚ । अन᳚पि॑नद्धम् । आ॒सु॒ । रुश᳚त् । चि॒त्रासु᳚ । जग᳚तीषु । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रासोमा हे इन्द्रासोमौ आमासु अपक्कासु गवां वक्षणासु ऊधःसु अन्तर्मध्ये पक्वं पयो निदधुः । किं च चित्रासु नानावर्णासु आसु जगतीषु गोषु इळा जगतीति गोनामसु पाठात् अन्तर्मध्ये अनपिनद्धं केनाप्यबद्धं रुशत् शुक्लवर्णं पयोजगृभथुः यथा पृथिव्यां स्वयं न क्षरति तथा धारितवन्तावित्यर्थः । इदिति पूरणः ॥ ४ ॥

6.72.5
इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु᳚त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे ।
यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्य॒ः सं वि᳚व्यथुः पृतना॒षाह᳚मुग्रा ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । यु॒वम् । अ॒ङ्ग । तरु᳚त्रम् । अ॒प॒त्य॒॑साच᳚म् । श्रुत्य᳚म् । र॒रा॒थे॒ इति᳚ ।
यु॒वम् । शुष्म᳚म् । नर्य᳚म् । च॒र्ष॒णि॑भ्यः᳚ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒॑सह᳚म् । उ॒ग्रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रासोमा हे इन्द्रासोमौ युवं यवां तरुत्रं तारकं अपत्यसाचं संतानयुक्तं श्रुत्यं श्रवणीयं रयिं धनं अंग क्षिप्रं रराथे अस्मभ्यं धत्थः किं च उग्रा हे उद्गूर्णाविन्द्रासोमौ युवं युवां नर्यं नृभ्योहितं पृतनासहं शत्रुसैन्याभिभावुकं शुष्मं बलं चर्षणिभ्योमनुष्येभ्यः कृष्टयः चर्षणय इतिमनुष्यन्मामसु पाठात् संविव्यथुः समतनुतं परिवेष्टयथोवा ॥ ५ ॥

योअद्रिभिदितितृचंद्वादशंसूक्तं बार्हस्पत्यं भरद्वाजस्यार्षं त्रैष्टुभं तथा चानुक्रम्यते-पोअद्रिभित्तृचंबार्हस्पत्यमिति आभिप्लविकेषू- क्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे स्तोमातिशंसनार्थमिदं सूक्तं सूत्र्यते हि योअद्रिभिद्यज्ञेदिवइति सूक्ते इति । वाजपेये बार्हस्पत्ये चरौ बृहस्पतिः समजयद्वसूनि त्वामीळेअजिरंदत्यायेति ।