श्रवणम्

6.72.2 समानपद
इन्द्रा᳚सोमा वा॒सय᳚थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति᳚षा स॒ह ।
उप॒ द्यां स्क॒म्भथु॒ः स्कम्भ᳚ने॒नाप्र᳚थतं पृथि॒वीं मा॒तरं॒ वि ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । वा॒सय᳚थः । उ॒षस᳚म् । उत् । सूर्य᳚म् । न॒य॒थः॒ । ज्योति᳚षा । स॒ह ।
उप᳚ । द्याम् । स्क॒म्भथुः᳚ । स्कम्भ᳚नेन । अप्र᳚थतम् । पृ॒थि॒वीम् । मा॒तर᳚म् । वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रासोमा हे इन्द्रासोमौ उषसं वासयथः विवासयथः उषसं व्युच्छन्तीं कारयथ इत्यर्थः । किं च सूर्यं ज्योतिषा तेजसा सह उन्नयथः अपि च द्यां दिवं स्कंभनेन स्तंभनहेतुनान्तरिक्षेण मध्ये स्थापितेन उपस्कंभथुः अस्तंभयतं मातरं विश्वस्य मातृभूतां पृथिवीं व्यप्रथतं व्यप्रथयतम् ॥ २ ॥