य आन᳚यत्परा॒वत॒ः सुनी᳚ती तु॒र्वशं॒ यदु᳚म् ।
इन्द्र॒ः स नो॒ युवा॒ सखा᳚ ॥
यः । आ । अन᳚यत् । प॒रा॒॑वतः᳚ । सु॑नी᳚ती । तु॒र्वश᳚म् । यदु᳚म् ।
इन्द्रः᳚ । सः । नः॒ । युवा᳚ । सखा᳚ ॥
यइन्द्रः तुर्वशंयदुंचएतत्संज्ञौराजाओशत्रुभिर्दूरदेशेप्रक्षिप्तौ सुनीतीसुनीत्याशोभनेननयनेनपरावतः तस्माद्दूरदेशात् आनयदानीतगन् युगवरुणःसइन्द्रःनोस्माकंसखाभवतु ॥ १ ॥
अ॒वि॒प्रे चि॒द्वयो॒ दध᳚दना॒शुना᳚ चि॒दर्व᳚ता ।
इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ॥
अ॒वि॒प्रे । चि॒त् । वयः᳚ । दध᳚त् । अ॒ना॒शुना᳚ । चि॒त् । अर्व᳚ता ।
इन्द्रः᳚ । जेता᳚ । हि॒तम् । धन᳚म् ॥
अविप्रेचित् विप्रःस्तोता तद्विलक्षणेपिपुरुषे वयोन्नंदधत्इन्द्रोधारयति किमुवक्तव्यंस्तोतरिधारयतीति सइन्द्रःअनाशुनाचित्अक्षिप्र- गमनेनापिअर्वता अश्वेनहितं शत्रुषुनिहितंस्थापितं धनंजेता जयशीलोभवती जयतेस्ताच्छीलिकस्तृन् अतोनलोकाव्ययेतिषष्ठीप्रतिषेधः ॥ २ ॥
म॒हीर᳚स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश᳚स्तयः ।
नास्य᳚ क्षीयन्त ऊ॒तयः᳚ ॥
म॒हीः । अ॒स्य॒ । प्र॑नी᳚तयः । पू॒र्वीः । उ॒त । प्र॑श᳚स्तयः ।
न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः᳚ ॥
अस्येन्द्रस्यप्रणीतयः प्रकृष्टानीतयः प्रापणानि महीःमह्योमहत्योभवन्ति उतापिचप्रशस्तयःप्रकृष्टाःस्तुतयःस्तोतृभिः क्रियमाणाःपूर्वी- र्बत्द्भ्योभवन्ति तथास्येन्द्रस्यऊतयोरक्षाःनक्षीयन्ते नापचीयन्ते किन्तुसर्वदावर्धन्तएव ॥ ३ ॥
सखा᳚यो॒ ब्रह्म᳚वाह॒से॑र्च᳚त॒ प्र च᳚ गायत ।
स हि न॒ः प्रम᳚तिर्म॒ही ॥
सखा᳚यः । ब्रह्म᳚॑वाहसे । अर्च᳚त । प्र । च॒ । गा॒य॒त॒ ।
सः । हि । नः॒ । प्र॑म᳚तिः । म॒ही ॥
हेसखायः समानख्यानाःस्तोतारः ब्रह्मवाहसे ब्रह्मभिर्मंत्रैर्वहनीयायप्राप्तव्यायेन्द्रायअर्चत शस्त्राणिशंसत प्रगायतच स्तोत्राणि सहिस- खल्विन्द्रः नोस्माकंमहीमहतीप्रमतिः प्रकृष्टाबुद्धिः ईदृश्याबुद्धेः प्रदातेत्यर्थः ॥ ४ ॥
त्वमेक᳚स्य वृत्रहन्नवि॒ता द्वयो᳚रसि ।
उ॒तेदृशे॒ यथा᳚ व॒यम् ॥
त्वम् । एक᳚स्य । वृ॒त्र॒॑ह॒न् । अ॒वि॒ता । द्वयोः᳚ । अ॒सि॒ ।
उ॒त । ई॒दृशे᳚ । यथा᳚ । व॒यम् ॥
हेवृत्रहन् वृत्राणांशत्रूणांहन्तरिन्द्र त्वंएकस्यस्तोतुःद्वयोश्चस्तोत्रोःअवितारक्षितासि सर्वेषां स्तोतॄणांरक्षकोभवसीत्यर्थः उतअपिच ईदृ- शेजनेप्यविताभवसि यथायादृशावयंत्वयारक्षिताबहुविधपुत्रपौत्राअभूम ईदृशस्यापिजनस्यत्वमेवरक्षकोनान्यइत्यर्थः ॥ ५ ॥
नय॒सीद्वति॒ द्विषः᳚ कृ॒णोष्यु᳚क्थशं॒सिनः᳚ ।
नृभि᳚ः सु॒वीर᳚ उच्यसे ॥
नय᳚सि । इत् । ऊं॒ इति᳚ । अति᳚ । द्विषः᳚ । कृ॒णोषि᳚ । उ॒क्थ॒॑शं॒सिनः᳚ ।
नृ॑भिः᳚ । सु॒॑वीरः᳚ । उ॒च्य॒से॒ ॥
हेइन्द्र इत् त्वमेवद्विषः द्वेष्टृन् अतिनयसि अस्मान्नयसितारयसि उइतिपूरकः तथाउक्थशंसिनः उक्थानिशस्त्राणिशंसतःस्तोतॄनस्मान्- कृणोषि समृद्धानकरोषि यस्मात्त्वंनृभिः स्तुतीनांनेतृभिः पुरुषैः सुवीरः शोभनैः वीरैः पुत्रपौत्रादिभिः स्तोतृभ्योदातव्यैरुपेतइत्युच्यसे स्तूयसेअतस्तानप्यस्मभ्यंप्रयच्छेतिशेषः ॥ ६ ॥
ब्र॒ह्माणं॒ ब्रह्म᳚वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् ।
गां न दो॒हसे᳚ हुवे ॥
ब्र॒ह्माण᳚म् । ब्रह्म᳚॑वाहसम् । गीः॒॑भिः । सखा᳚यम् । ऋ॒ग्मिय᳚म् ।
गाम् । न । दो॒हसे᳚ । हु॒वे॒ ॥
ब्रह्माणंपरिवृढं ब्रह्मवाहसं ब्रह्मभिःस्तुतिरूपैर्मंत्रैर्वहनीयं सखायंअस्माकंसखिभूतंऋग्मियं ऋग्माऋचस्तदर्हं स्तुत्यर्हमित्यर्थः एवंभूत- मिन्द्रं दोहसेदोग्धुं गांन गामिव गीर्भिः स्तुतिभिः हुवेआह्वयामि अस्मदीयान्कामान् दोग्धुम् ॥ ७ ॥
यस्य॒ विश्वा᳚नि॒ हस्त᳚योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता ।
वी॒रस्य᳚ पृतना॒षहः᳚ ॥
यस्य᳚ । विश्वा᳚नि । हस्त᳚योः । ऊ॒चुः । वसू᳚नि । नि । द्वि॒ता ।
वी॒रस्य᳚ । पृ॒त॒ना॒॑सहः᳚ ॥
वीरस्यवीर्यवतः पृतनाषहः पृतनाःशत्रुसेनाः तासामभिभवितुः यस्येन्द्रस्यहस्तयोः बाह्वोः विश्वानिसर्वाणिद्विता दिव्यपार्थिवरूपे- णद्वैधं वर्तमानानिवसूनिविद्यन्तइतिन्यूचुः ऋषयोनितरांवदन्ति तमिन्द्रंहुवइतिपूर्वत्रसंबन्धः ॥ ८ ॥
वि दृ॒ळ्हानि᳚ चिदद्रिवो॒ जना᳚नां शचीपते ।
वृ॒ह मा॒या अ᳚नानत ॥
वि । दृ॒ळ्हानि᳚ । चि॒त् । अ॒द्रि॒॑वः॒ । जना᳚नाम् । श॒ची॒॑प॒ते॒ ।
वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥
हेअद्रिवः आदृणात्यनेनेत्यद्रिर्वज्रः तद्वन् शचीपते इन्द्र जनानांशत्रूणांदृह्ळानिचित् दृढानिस्थिराण्यपि पुराणिबलानिवा विवृह वि- भिंधि विविधमुन्मूलयेत्यर्थः हेअनानत अप्रह्वीभूत सर्वोच्छ्रितेन्द्र मायाश्चशत्रुभिर्निर्मिताः विवृह विनाशय ॥ ९ ॥
तमु᳚ त्वा सत्य सोमपा॒ इन्द्र᳚ वाजानां पते ।
अहू᳚महि श्रव॒स्यवः᳚ ॥
तम् । ऊं॒ इति᳚ । त्वा॒ । स॒त्य॒ । सो॒म॒॑पाः॒ । इन्द्र᳚ । वा॒जा॒ना॒म् । प॒ते॒ ।
अहू᳚महि । श्र॒व॒स्यवः᳚ ॥
हेसत्य अवितथस्वभाव सोमपाः सोमस्यपातः हेवाजानांपते अन्नानांपालयितः एवंभूतहेइन्द्र श्रवस्यवः श्रवोन्नंआत्मनइच्छन्तोवयं तमुत्वा तादृशंत्वामेवअहूमहि आह्वयामः स्तुमइत्यर्थः ॥ १० ॥
तमु᳚ त्वा॒ यः पु॒रासि᳚थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ ।
हव्य॒ः स श्रु᳚धी॒ हव᳚म् ॥
तम् । ऊं॒ इति᳚ । त्वा॒ । यः । पु॒रा । आसि᳚थ । यः । वा॒ । नू॒नम् । हि॒ते । धने᳚ ।
हव्यः᳚ । सः । श्रु॒धि॒ । हव᳚म् ॥
हेइन्द्र तमुत्वा तमेवत्वां स्तुमइतिशेषः यस्वं पुरापूर्व्स्मिन्काले हव्योह्वातव्यःआसिथ बभूविथधनलाभार्थं योवायश्चत्वं हिते शत्रुषु- निहितेधनेनिमित्तभूतेसति नूनमद्यापिहव्योह्वातव्योबभूविथ सत्वमस्मदीयंहवंस्तोत्रंश्रुधि श्रृणु ॥ ११ ॥
धी॒भिरर्व᳚द्भि॒रर्व᳚तो॒ वाजा{4}᳚ इन्द्र श्र॒वाय्या᳚न् ।
त्वया᳚ जेष्म हि॒तं धन᳚म् ॥
धी॒भिः । अर्व᳚त्॑भिः । अर्व᳚तः । वाजा᳚न् । इ॒न्द्र॒ । श्र॒वाय्या᳚न् ।
त्वया᳚ । जे॒ष्म॒ । हि॒तम् । धन᳚म् ॥
हेइन्द्र धीभिः स्तुतिभिः त्वद्विषयाभिःप्रीतेनत्वयाअनुगृहीतावयंअर्वद्भिरस्मदीयैरश्वैः अर्वतः शत्रुसंबन्धिनोश्वान् श्रवाय्यन् श्रवणी- यान् प्रशस्यान् वाजान् अन्नानिच हितंशत्रुषुनिहितंधनंच जेष्म त्वदनुग्रहाज्जयेम ॥ १२ ॥
अभू᳚रु वीर गिर्वणो म॒हा{4} इ᳚न्द्र॒ धने᳚ हि॒ते ।
भरे᳚ वितन्त॒साय्य᳚ः ॥
अभूः᳚ । ऊं॒ इति᳚ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने᳚ । हि॒ते ।
भरे᳚ । वि॒त॒न्त॒साय्यः᳚ ॥
हेवीर विविधंईरयितः शत्रूणां हेगिर्वणोगीर्भिर्वननीयेन्द्र हितेशत्रुषुनिहितेधनेनिमित्तभूतेसति महान् प्रवृद्धस्त्वं भरेसंग्रामेवितंतसा- य्यः शत्रूणांजेताभूः तंतसइतिधातुः जयार्थः कंड्ढादौ पठ्यते तस्मात् व्युपसृष्टादौणादिकः कर्तरिआय्यप्रत्ययः ॥ १३ ॥
या त᳚ ऊ॒तिर᳚मित्रहन्म॒क्षूज᳚वस्त॒मास᳚ति ।
तया᳚ नो हिनुही॒ रथ᳚म् ॥
या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒॑ह॒न् । म॒क्षुज᳚वः॑तमा । अस᳚ति ।
तया᳚ । नः॒ । हि॒नु॒हि॒ । रथ᳚म् ॥
हेअमित्रहन् अमित्राणांशत्रूणांहन्तरिन्द्र तेत्वदीयामक्षुजवस्तमा अतिशयेनशीघ्रजवा याऊतिर्गतिः असतिअस्ति तयागत्यानोस्माकं- रथंहिनुहि प्रेरय शत्रुजयार्थंशीघ्रंगमय ॥ १४ ॥
स रथे᳚न र॒थीत᳚मो॒॑स्माके᳚नाभि॒युग्व᳚ना ।
जेषि᳚ जिष्णो हि॒तं धन᳚म् ॥
सः । रथे᳚न । र॒थि॑त᳚मः । अ॒स्माके᳚न । अ॒भि॒॑युग्व᳚ना ।
जेषि᳚ । जि॒ष्णो॒ इति᳚ । हि॒तम् । धन᳚म् ॥
हेजिष्णो जयशीलेन्द्र रथीतमः अतिशयेनरथीमहारथः सत्वंअस्माकेन अस्मदीयेन अभियुग्वना अभियोक्त्राशत्रूणामभिभवित्रारथेन हितंशत्रुषुनिहितंधनंजेषि अस्मदर्थंजय ॥ १५ ॥
य एक॒ इत्तमु᳚ ष्टुहि कृष्टी॒नां विच᳚र्षणिः ।
पति᳚र्ज॒ज्ञे वृष᳚क्रतुः ॥
यः । एकः᳚ । इत् । तम् । ऊं॒ इति᳚ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । वि॑च᳚र्षणिः ।
पतिः᳚ । ज॒ज्ञे । वृष᳚॑क्रतुः ॥
विचर्षणिर्विशेषेणसर्वस्यद्रष्टा वृषक्रतुर्वर्षकर्मायइन्द्रः एकइत् एकएव कृष्टीनांप्रजानांपतिरधिपतिजंज्ञे अजायत नान्यःकश्चित् तमुत- मेवेन्द्रंहेस्तोतःस्तुहि ॥ १६ ॥
यो गृ᳚ण॒तामिदासि᳚था॒पिरू॒ती शि॒वः सखा᳚ ।
स त्वं न᳚ इन्द्र मृळय ॥
यः । गृ॒ण॒ताम् । इत् । आसि᳚थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा᳚ ।
सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
हेइन्द्र यस्त्वं ऊतीऊत्या रक्षयाशिवःसुखकरः अतएवसखामित्रभूतश्चसन् गृणतामित् स्तुवतामस्माकमेवआपिर्बंधुरासिथ पुराबभूवि- थ सतादृशस्त्वं नोस्मान् इदानींमृळय सुखय ॥ १७ ॥
धि॒ष्व वज्रं॒ गभ᳚स्त्यो रक्षो॒हत्या᳚य वज्रिवः ।
सा॒स॒ही॒ष्ठा अ॒भि स्पृधः᳚ ॥
धि॒ष्व । वज्र᳚म् । गभ᳚स्त्योः । र॒क्षः॒॑हत्या᳚य । व॒ज्रि॒॑वः॒ ।
स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः᳚ ॥
हेवज्रिवः वज्रवन्निन्द्र गभस्त्योरात्मीययोर्हस्तयोर्वज्रंकुलिशंधिष्व धारय किमर्थं रक्षोहत्याय रक्षसांहननार्थं धृत्वाच स्पृधः स्पर्धमा- नाःअभि अभिगंत्रीरासुरीःसेनाः ससहीष्ठाः अत्यर्थमभिभव ॥ १८ ॥
प्र॒त्नं र᳚यी॒णां युजं॒ सखा᳚यं कीरि॒चोद᳚नम् ।
ब्रह्म᳚वाहस्तमं हुवे ॥
प्र॒त्नम् । र॒यी॒णाम् । युज᳚म् । सखा᳚यम् । की॒रि॒॑चोद᳚नम् ।
ब्रह्म᳚॑वाहः॑तमम् । हु॒वे॒ ॥
प्रत्नं चिरंतनं सर्वेषामाद्यं रयीणांधनानांयुजं योजयितारं दातारंसखायंमित्रभूतं कीरिचोदनं कीरीणांस्तोतॄणांचोदयितारं ब्रह्मवाह- स्तमं अतिशयेनब्रह्मभिर्मंत्रैर्वहनीयं एवंविधमिन्द्रं हुवे आह्वयामि ॥ १९ ॥
स हि विश्वा᳚नि॒ पार्थि᳚वा{4}॒ एको॒ वसू᳚नि॒ पत्य᳚ते ।
गिर्व᳚णस्तमो॒ अध्रि᳚गुः ॥
सः । हि । विश्वा᳚नि । पार्थि᳚वा । एकः᳚ । वसू᳚नि । पत्य᳚ते ।
गिर्व᳚णः॑तमः । अध्रि᳚॑गुः ॥
सहि सखल्विन्द्रः विश्वानिसर्वाणिपार्थिवा पृथिव्यांभवानि वसूनिधनानिएकएवपत्यते ईष्टे नान्यःकश्चित् पत्यतिरैश्वर्यकर्मा कीदृश- इन्द्रः गिर्वणस्तमः अतिशयेनगीर्भिः स्तुतिभिः संभजनीयः अध्रिगुरधृतगमनः अप्रतिहतगतिरित्यर्थः ॥ २० ॥
स नो᳚ नि॒युद्भि॒रा पृ᳚ण॒ कामं॒ वाजे᳚भिर॒श्विभि᳚ः ।
गोम᳚द्भिर्गोपते धृ॒षत् ॥
सः । नः॒ । नि॒युत्॑भिः᳚ । आ । पृ॒ण॒ । काम᳚म् । वाजे᳚भिः । अ॒श्वि॑भिः᳚ ।
गोम᳚त्॑भिः । गो॒॑प॒ते॒ । धृ॒षत् ॥
हेगोपते गवां पालयितः सत्वंनोस्माकंकामंनियुद्भिर्वडवाभिः धृषत् धृष्टंदारिद्भ्यनाशनसमर्थंयथाभवतितथाआपृणापूरय यद्वा धृष- दितीन्द्रविशेषणं शत्रूणांधर्षकस्त्वमित्यर्थः तथागोमद्भिर्बहुभिर्गोभिर्युक्तैः अश्विभिः बहुभिरश्वैरुपेतैर्वाजैरन्नैश्च अस्मदीयंकाममापूरय ॥ २१ ॥
तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व᳚ने ।
शं यद्गवे॒ न शा॒किने᳚ ॥
तत् । वः॒ । गा॒य॒ । सु॒ते । सचा᳚ । पु॒रु॒॑हू॒ताय᳚ । सत्व᳚ने ।
शम् । यत् । गवे᳚ । न । शा॒किने᳚ ॥
हेस्तोतारोवोयूयंसुतेअभिषुतेसोमेसति पुरुहूतायबहुभिर्यजमानैराहूताय सत्वने शत्रूणांसादयित्रे धनानांवासनित्रेदात्रेइन्द्राय तत् – स्तोत्रंसचा सह संहताभूत्वा गायगायत यत् स्तोत्रं शाकिनेशक्तिमतेइन्द्राय शंसुखकरंभवति गवेनयथागवेयवसंसुखकरं भवति तद्वदित्य- र्थः ॥ २२ ॥
न घा॒ वसु॒र्नि य᳚मते दा॒नं वाज᳚स्य॒ गोम᳚तः ।
यत्सी॒मुप॒ श्रव॒द्गिरः᳚ ॥
न । घ॒ । वसुः᳚ । नि । य॒म॒ते॒ । दा॒नम् । वाज᳚स्य । गो॑म᳚तः ।
यत् । सी॒म् । उप᳚ । श्रव᳚त् । गिरः᳚ ॥
वसुर्वासयितासइन्द्रः गोमतोबहुभिर्गोभिर्युक्तस्यवाजस्यान्नस्यबलस्यवा दानंप्रदानं नघनखलु नियमते नियच्छति उपरतंकरोति यद्यदि सींसर्वतः गिरः अस्मदीयाःस्तुतीः उपश्रवत् उपश्रृणुयात् स्तोत्रश्रवणेसति सर्वदाददातीत्यर्थः ॥ २३ ॥
कु॒वित्स᳚स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम᳚त् ।
शची᳚भि॒रप᳚ नो वरत् ॥
कु॒वित्॑स᳚स्य । प्र । हि । व्र॒जम् । गो॑म᳚न्तम् । द॒स्यु॒॑हा । गम᳚त् ।
शची᳚भिः । अप᳚ । नः॒ । व॒र॒त् ॥
कुवित्सस्य कुविद्बहुशः स्यतिहिनस्तीतिकुवित्सोनामकश्चित् तस्यस्वभूतं गोमंतं बहुभिर्गोभिर्युक्तं व्रजंगोष्ठं दस्युहादस्यूनामुपक्षपयि- तॄणांहन्तेन्द्रः प्रगमत् प्रकर्षेणगच्छति हियस्मादेवंतस्मात् शचीभिरात्मीयैः कर्मभिः प्रज्ञाभिर्वा नोस्माकंतागाः अपवरत् निगूढास्ताअपा- वृणोत् ॥ २४ ॥
इ॒मा उ᳚ त्वा शतक्रतो॒॑भि प्र णो᳚नुवु॒र्गिरः᳚ ।
इन्द्र᳚ व॒त्सं न मा॒तरः᳚ ॥
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः᳚ ।
इन्द्र᳚ । व॒त्सम् । न । मा॒तरः᳚ ॥
हेशतक्रतो बहुविधकर्मन् बहुविधप्रज्ञवेन्द्र त्वात्वामभिइमाअस्मदीयागिरः स्तुतयः प्रणोनुवुः प्रकर्षेणपुनःपुनर्गच्छन्ति नौतिरत्रगति- कर्मा तत्रदृष्टान्तः—वत्संनमातरः यथामातरोगावोगृहेवर्तमानंवत्संशीघ्रमभिगच्छन्तितद्वत् यद्वास्मदीयावाचस्त्वां अभिनोनुवुः अभितः- शब्दयन्ति स्तुवन्ति यथागावोवत्समभिलक्ष्यहंभारवंकुर्वन्तितद्वत् ॥ २५ ॥
दू॒णाशं᳚ स॒ख्यं तव॒ गौर᳚सि वीर गव्य॒ते ।
अश्वो᳚ अश्वाय॒ते भ᳚व ॥
दुः॒॑नश᳚म् । स॒ख्यम् । तव᳚ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।
अश्वः᳚ । अ॒श्व॒॑य॒ते । भ॒व॒ ॥
हेइन्द्र तवत्वदीयंसख्यंसखित्वं दूणाशं दुर्नाशं नाशयितुमशक्यं अतिदृढमित्यर्थः अतोहेवीर वीरयितरिन्द्र गव्यतेगामात्मनइच्छतेत्वं- गौरसि गवांप्रदाताभवसि उपचारात्कारणेकार्यशब्दः तथाअश्वायतेअश्वानात्मनइच्छतेअश्वोभव अश्वप्रदोभवसि ॥ २६ ॥
स म᳚न्दस्वा॒ ह्यन्ध᳚सो॒ राध᳚से त॒न्वा᳚ म॒हे ।
न स्तो॒तारं᳚ नि॒दे क᳚रः ॥
सः । म॒न्द॒स्व॒ । हि । अन्ध᳚सः । राध᳚से । त॒न्वा᳚ । म॒हे ।
न । स्तो॒तार᳚म् । नि॒दे । क॒रः॒ ॥
हेइन्द्र सतादृशस्त्वं अन्धसः सोमस्यपानेनहृष्टया तन्वाआत्मीयेनशरीरेणमन्दस्त्र मोदस्व किमर्थं महेमहते राधसेधनार्थं हिपूरणः अपिच त्वदीयंस्तोतारंनिदेनिंदकायतस्यवशंनकरः नकुर्याः ॥ २७ ॥
इ॒मा उ᳚ त्वा सु॒तेसु᳚ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः᳚ ।
व॒त्सं गावो॒ न धे॒नवः᳚ ॥
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । सु॒ते॑सु᳚ते । नक्ष᳚न्ते । गि॒र्व॒णः॒ । गिरः᳚ ।
व॒त्सम् । गावः᳚ । न । धे॒नवः᳚ ॥
हेगिर्वणोगीर्भिर्वननीयेन्द्र सुतेसुतेसोमेभिषुतेभिषुतेसति इमाअस्मदीयागिरःस्तुतयःत्वा त्वांनक्षन्ते व्याप्नुवन्ति धेनवोदोग्ध्र्यः गावोन गावइव वत्सं तायथाशीघ्रंवत्संव्याप्नुवन्तितद्वत् उपरणः ॥ २८ ॥
पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि ।
वाजे᳚भिर्वाजय॒ताम् ॥
पु॒रु॒॑तम᳚म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । वि॑वा᳚चि ।
वाजे᳚भिः । वा॒ज॒॑य॒ताम् ॥
हेइन्द्र पुरुतमंपुरूणांबहूनांशत्रूणांतमयितारंग्लपयितारंत्वां पुरूणांबहूनांस्तोतॄणांअस्माकंस्तुतिः प्राप्नोत्वितिशेषः कीदृशानां विवा- चिविविधाः स्तुतशस्त्रात्मिकावाचःयस्मिन्यज्ञेतस्मिन् वाजेभिर्वाजैर्हविर्लक्षणैरन्नैर्वाजयतांवाजवन्तंवेगवन्तंबलवन्तंवात्वांकुर्वताम् ॥ २९ ॥
अ॒स्माक᳚मिन्द्र भूतु ते॒ स्तोमो॒ वाहि᳚ष्ठो॒ अन्त᳚मः ।
अ॒स्मान्रा॒ये म॒हे हि᳚नु ॥
अ॒स्माक᳚म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः᳚ । वाहि᳚ष्ठः । अन्त᳚मः ।
अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥
हेइन्द्र वाहिष्ठोवोढृतमः अस्माकंस्तोम स्तोत्रंतेतवअन्तमःअन्तिकतमोभूतुभवतु त्वंचास्मान् महेमहते रायेधनायहिन् प्रेरय ॥ ३० ॥
अधि᳚ बृ॒बुः प᳚णी॒नां वर्षि᳚ष्ठे मू॒र्धन्न᳚स्थात् ।
उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥
अधि᳚ । बृ॒बुः । प॒णी॒नाम् । वर्षि᳚ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।
उ॒रुः । कक्षः᳚ । न । गा॒ङ्ग्यः ॥
बृबुर्नामपणीनांतक्षा तत्सकाशाल्लब्धधनोभरद्वाजः तदीयंदानमनेनतृचेनास्तौत् एतच्चमनुनास्मर्यते—भरद्वाजःक्षुधार्तस्तुसपुत्रोनि- र्जनेवने । बह्वीर्गाःप्रतिजग्राहबृबोस्तक्ष्णोमहायशाइति ॥ पणनात्पणयोवणिजः एतत्संज्ञाअसुरावा तेषांतक्षाबृबुःवर्षिष्ठेमूर्धन् मूर्धनिमू- र्धवदुच्छ्रितेस्थलेअध्यस्थात् अधिष्ठितोभूत् गांग्यः गंगायाःकूलेउन्नतेभवः कक्षोन कक्षइव उरुविस्तीर्णःसन् जातितोहीनोतिदातृत्वात्- सर्वत्रश्रेष्ठोभवतीत्यर्थः ॥ ३१ ॥
यस्य᳚ वा॒योरि᳚व द्र॒वद्भ॒द्रा रा॒तिः स᳚ह॒स्रिणी᳚ ।
स॒द्यो दा॒नाय॒ मंह᳚ते ॥
यस्य᳚ । वा॒योः॑इ᳚व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी᳚ ।
स॒द्यः । दा॒नाय᳚ । मंह᳚ते ॥
वायोरिवद्रवत् क्षिप्रगामिनोयस्यबृबोः भद्राकल्यानी सहस्रिणीसहास्रसंख्यायुक्ता रातिर्दानंसद्यःस्तुतिसमयेएवदानायदानकामाय- याचमानाय मह्यंमंहतेअपेक्षितं धनंददाति तंबृबुमितिउत्तरस्यामृचिसंबन्धः ॥ ३२ ॥
तत्सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः᳚ ।
बृ॒बुं स᳚हस्र॒दात᳚मं सू॒रिं स᳚हस्र॒सात᳚मम् ॥
तत् । सु । नः॒ । विश्वे᳚ । अ॒र्यः । आ । सदा᳚ । गृ॒ण॒न्ति॒ । का॒रवः᳚ ।
बृ॒बुम् । स॒ह॒स्र॒॑दात᳚मम् । सू॒रिम् । स॒ह॒स्र॒॑सात᳚मम् ॥
तत् तंबृबुंनोस्मदीयाः विश्वेसर्वेअर्यःस्तुतीनामीरयितारःकारवः स्तोतारः सुसुष्ठुआगृणन्ति अभिगृणन्ति अभिष्टुवन्ति कीदृशं सहस्र- दातमंअतिशयेनसहस्रसंख्यस्यधनस्यदातारं सूरिंप्राज्ञं यद्वा प्रेरयितारंसहस्रसातमं अतिशयेनसहस्रसंख्यस्यस्तोत्रस्यधनस्यवासंभक्तारं ॥ ३३ ॥
त्वामिद्धीतिचतुर्दशर्चंतृतीयंसुक्तं बृहस्पतिपुत्रस्यशंयोरार्षमैन्द्रं प्रथमातृतीयाद्याअयुजोबृहत्यः द्वितीयाचतुर्थ्याद्यायुजः सतोबृहत्यः तथाचानुक्रान्तं—त्वामिद्धिषळूनाप्रागाथमिति । सूक्तविनियोगोलैंगिकः यदिज्योतिष्टोमोबृहत्पृष्ठः स्यात् तदानींनिष्केवल्यस्यआद्यः प्र- गाथः स्तोत्रियः सूत्रितंच—यद्युवैबृहत् त्वामिद्धिहवामहइति । महाव्रतेपिनिश्केवल्येअयंप्रगाथः शंसनीयः तथैवपंचमारण्यकेसूत्रितं- त्वामिद्धिहवामहेत्वंह्येहिचेरवइति बृहतस्तोत्रियानुरूपाविति ।