षष्ठं मण्डलम् - सूक्तम् 28

8 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: गावः छन्दः: त्रिष्टुप्

सूक्तम् 6.28 - सम्पूर्णम्

1 / 8
ऋक्: 6.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
6.28.1
आ गावो᳚ अग्मन्नु॒त भ॒द्रम᳚क्र॒न्त्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे ।
प्र॒जाव᳚तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ॥
▶ पदपाठः (Word-by-word)
आ । गावः᳚ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद᳚न्तु । गो॒॑स्थे । र॒णय᳚न्तु । अ॒स्मे इति᳚ ।
प्र॒जा॑व᳚तीः । पु॒रु॒॑रूपाः᳚ । इ॒ह । स्युः॒ । इन्द्रा᳚य । पू॒र्वीः । उ॒षसः᳚ । दुहा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गावः आअग्मन् अस्मदीयंगृहंआगच्छन्तु उतापिच भद्रं भजनीयं शुभं अक्रन् कुर्वन्तु तथा गोष्ठे अस्मदीयेगवांस्थाने सीदन्तूपविशन्तु तदनन्तरं अस्मे अस्मासु रणयन्तु रमन्तां अपिच इहास्मिन् गोष्ठे पुरुरूपानानावर्णागावःप्रजावतीः प्रजावत्यः सन्ततिसहिताः स्युर्भवे- युः इन्द्रायेन्द्रार्थं पूर्वीर्बह्वीः उषसोदिवसान् सर्वेषुदिवसेषुइत्यर्थः दुहानाः क्षीरंदोहमानाभवेयुः ॥ १ ॥

6.28.2
इन्द्रो॒ यज्व᳚ने पृण॒ते च᳚ शिक्ष॒त्युपेद्द᳚दाति॒ न स्वं मु᳚षायति ।
भूयो᳚भूयो र॒यिमिद᳚स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द᳚धाति देव॒युम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । यज्व᳚ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप᳚ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।
भूयः᳚॑भूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय᳚न् । अभि᳚न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒॑युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः यज्वने यजनशीलाय पृणतेच स्तुतिभिःप्रीणयित्रेचस्तोत्रेशिक्षति अपेक्षितंधनंददाति नकेवलंसकृदेवदानं अपितु सर्वदैवेत्याह उपेद्ददाति उपेत्यसर्वदाददात्वेव यज्वनःस्तोतुश्च स्वं स्वभूतंधनं नमुषायति कदाचिदपिनापहरति अपिच अस्योभयविधस्य रयिं धन- मात्मनादत्तं भूयोभूयः पुनः पुनर्वर्धयन्नित् वृद्धिंप्रापयन्नेव देवयुं देवमिन्द्रमात्मनइच्छन्तंतंजनं अभिन्नेशत्रुभिरभेद्येखिल्येखिलमप्रति- हतंस्थानंतदेवखिल्यंस्वार्थिकोयत् अन्यैर्गन्तुमशक्येस्थले निदधाति निक्षिपति निवासयतीत्यर्थः ॥ २ ॥ दैवीनांहविःषुनतानशंतिनताअर्वेतिगोदेवतायायाज्यापुरोनुवाक्ये गोस्तोमेपिमरुत्वतीयनिष्केवल्ययोरेतेसूक्तमुखीये सूत्रितंच— नताअर्वारेणुककाटोअश्नुतेनतानशन्तिनदभातितस्करइति ।

6.28.3 समानपद
न ता न᳚शन्ति॒ न द᳚भाति॒ तस्क᳚रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द᳚धर्षति ।
दे॒वा{4}श्च॒ याभि॒र्यज᳚ते॒ ददा᳚ति च॒ ज्योगित्ताभि᳚ः सचते॒ गोप᳚तिः स॒ह ॥
▶ पदपाठः (Word-by-word)
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क᳚रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः᳚ । आ । द॒ध॒र्ष॒ति॒ ।
दे॒वान् । च॒ । याभिः᳚ । यज᳚ते । ददा᳚ति । च॒ । ज्योक् । इत् । ताभिः᳚ । स॒च॒ते॒ । गो॑प᳚तिः । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

तागावोननशन्ति अस्मत्सकाशान्ननश्यन्तु किंच तस्करश्चौरोपि नदभाति अस्मदीयागाः नहिंस्यात् तथा आमित्रः अमित्र्स्यशत्रोः संबन्धि व्यथिः शस्त्रं आसांइमागाः नादधषंति नाक्रमतु गोपतिः एवंभूतानांगवांस्वामीयजमानः याभिर्गोभिः देवांश्चेन्द्रादीनुद्दिश्य यजते यजनंकरोति योगाःइन्द्रार्थंददातिचप्रयच्छतिच ताभिस्तादृशीर्गोभिःसह ज्योगित् चिरकालमेवसचते संगच्छतां ॥ ३ ॥

6.28.4
न ता अर्वा᳚ रे॒णुक᳚काटो अश्नुते॒ न सं᳚स्कृत॒त्रमुप᳚ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ᳚यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त᳚स्य॒ वि च᳚रन्ति॒ यज्व᳚नः ॥
▶ पदपाठः (Word-by-word)
न । ताः । अर्वा᳚ । रे॒णु॑क᳚काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒॑त्रम् । उप᳚ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒॑गा॒यम् । अभ᳚यम् । तस्य᳚ । ताः । अनु᳚ । गावः᳚ । मर्त᳚स्य । वि । च॒र॒न्ति॒ । यज्व᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेणुककाटः रेणोः पार्थिवस्यरजसउद्भेदकः कटिर्भेदनकर्मा अर्वायुद्धार्थमागतोश्वः तागाः नाश्नुते नप्राप्नुयात् तथा तागावः संस्कृतत्रं विशसनादिसंस्कारं नाभ्युपयन्ति नाभिगच्छन्तु अपिच तागावःयज्वनोयागशीलस्य तस्य मर्तस्य मनुष्यस्य उरुगायं विस्तीर्णगमनं अभयं भयवर्जितप्रदेशं अनूद्दिश्य विचरन्ति विशेषेणगच्छन्तु ॥ ४ ॥

6.28.5
गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे अच्छा॒न्गाव॒ः सोम᳚स्य प्रथ॒मस्य᳚ भ॒क्षः ।
इ॒मा या गाव॒ः स ज᳚नास॒ इन्द्र᳚ इ॒च्छामीद्धृ॒दा मन᳚सा चि॒दिन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
गावः᳚ । भगः᳚ । गावः᳚ । इन्द्रः᳚ । मे॒ । अ॒च्छा॒न् । गावः᳚ । सोम᳚स्य । प्र॒थ॒मस्य᳚ । भ॒क्षः ।
इ॒माः । याः । गावः᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ । इ॒च्छामि᳚ । इत् । हृ॒दा । मन᳚सा । चि॒त् । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नावएव मह्यं भगोधनं भवन्तु इन्द्रश्च मे मह्यं गावोगाः अच्छान् यच्छतु गावः प्रथमस्य हविषांश्रेष्ठस्यसोमस्य भक्षोभक्षणं भवतु अभिषुतस्यहिसोमस्य गव्येनाज्यादिनासंश्रयणत्वात् हेजनासोजनाः इमाएवंभूतायागावःसन्ति सः ताइत्यर्थः ताएवगावः इन्द्रोभवन्ति दधिघृतादिरूपेणेन्द्रस्याप्यायनत्वात् एवंभूतमिन्द्रं हृदा श्रद्धायुक्तेन मनसा चित् चिदित्यप्यर्थे इच्छामीत् कामयेएव साधनभूताभिर्गो- भिरेवं भूतमिन्द्रंयष्टुमिच्छामीत्यर्थः ॥ ५ ॥

6.28.6 समानपद
यू॒यं गा᳚वो मेदयथा कृ॒शं चि᳚दश्री॒रं चि᳚त्कृणुथा सु॒प्रती᳚कम् ।
भ॒द्रं गृ॒हं कृ᳚णुथ भद्रवाचो बृ॒हद्वो॒ वय᳚ उच्यते स॒भासु᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒॑प्रती᳚कम् ।
भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒॑वा॒चः॒ । बृ॒हत् । वः॒ । वयः᳚ । उ॒च्य॒ते॒ । स॒भासु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेगावोयूयं मेदयथ आप्यायनंकुरुथेत्यर्थः तथा कृशंचित्क्षीणमपि अश्रीरंचिदमंगलमपि सुप्रतीकं शोभनांगं कृणुथ कुरुथ हेभद्रवाचः कल्याणध्वन्युपेतागावः अस्मदीयंगृहं भद्रं कल्याणंकृणुथ गोभिरुपेतंकुरुथ सभासु यागपरिषत्सु हेगावोयुष्माकं बृहत् महत् वयोन्नं उच्यते समवेतंक्रियते सर्वैर्दीयतइत्यर्थः ॥ ६ ॥

6.28.7
प्र॒जाव᳚तीः सू॒यव᳚सं रि॒शन्ती᳚ः शु॒द्धा अ॒पः सु᳚प्रपा॒णे पिब᳚न्तीः ।
मा वः᳚ स्ते॒न ई᳚शत॒ माघशं᳚स॒ः परि᳚ वो हे॒ती रु॒द्रस्य᳚ वृज्याः ॥
▶ पदपाठः (Word-by-word)
प्र॒जा॑व᳚तीः । सु॒॑यव᳚सम् । रि॒शन्तीः᳚ । शु॒द्धाः । अ॒पः । सु॒॑प्र॒पा॒ने । पिब᳚न्तीः ।
मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घ॑शं᳚सः । परि᳚ । वः॒ । हे॒तिः । रु॒द्रस्य᳚ । वृ॒ज्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेगावोयूयं प्रजावतीः प्रजावत्यः वत्साभिर्युक्ताभवतेतिशेषः सुयवसं शोभनतृणं रिशन्तीः रिशंत्यः भक्षणार्थंहिंसंत्योभवत सुप्रपाणे सुखेनपातव्येतटाकादौ शुद्धाः निर्मलाअपः उदकानि पिबन्तीः पिबंत्यश्चभवत वोयुष्मान् स्तेनः तस्करः माईशत माईशिष्ट ईश्वरोमा- भूत् तथात्पघशंसः व्याघ्रादिः शत्रुः माईशत अपिच वोयुष्मान् रुद्रस्य कालात्मकस्य परमेश्वरस्य हेतिरायुधंच परिवृज्याः परिवृणक्तु परिहरतु ॥ ७ ॥

6.28.8 समानपद
उपे॒दमु᳚प॒पर्च᳚नमा॒सु गोषूप᳚ पृच्यताम् ।
उप᳚ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव᳚ वी॒र्ये᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । इ॒दम् । उ॒प॒॑पर्च᳚नम् । आ॒सु । गोषु᳚ । उप᳚ । पृ॒च्य॒ता॒म् ।
उप᳚ । ऋ॒ष॒भस्य᳚ । रेत᳚सि । उप᳚ । इ॒न्द्र॒ । तव᳚ । वी॒र्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसुगोषु इदमुपपर्चनं आप्यायनं उपपृच्यतां संपृच्यतां हेइन्द्र तववीर्ये त्वदीयवीर्यनिमित्ते ऋषभस्य गवांगर्भमादधानस्यवृषभस्य रेतसि इदमुपपर्चनं आप्यायनं गोषुह्याप्यायितासुसतीषु तत्संबन्धिक्षीरादिहविर्द्वारेणेन्द्रः आप्यायितोभवतीत्यर्थः उपेतिपुनर्वचनंपाद- भेदानां पूरणार्थमिति ॥ ८ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेषष्ठोध्यायःसमाप्तः ॥ ६ ॥