श्रवणम्

6.28.5
गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे अच्छा॒न्गाव॒ः सोम᳚स्य प्रथ॒मस्य᳚ भ॒क्षः ।
इ॒मा या गाव॒ः स ज᳚नास॒ इन्द्र᳚ इ॒च्छामीद्धृ॒दा मन᳚सा चि॒दिन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
गावः᳚ । भगः᳚ । गावः᳚ । इन्द्रः᳚ । मे॒ । अ॒च्छा॒न् । गावः᳚ । सोम᳚स्य । प्र॒थ॒मस्य᳚ । भ॒क्षः ।
इ॒माः । याः । गावः᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ । इ॒च्छामि᳚ । इत् । हृ॒दा । मन᳚सा । चि॒त् । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नावएव मह्यं भगोधनं भवन्तु इन्द्रश्च मे मह्यं गावोगाः अच्छान् यच्छतु गावः प्रथमस्य हविषांश्रेष्ठस्यसोमस्य भक्षोभक्षणं भवतु अभिषुतस्यहिसोमस्य गव्येनाज्यादिनासंश्रयणत्वात् हेजनासोजनाः इमाएवंभूतायागावःसन्ति सः ताइत्यर्थः ताएवगावः इन्द्रोभवन्ति दधिघृतादिरूपेणेन्द्रस्याप्यायनत्वात् एवंभूतमिन्द्रं हृदा श्रद्धायुक्तेन मनसा चित् चिदित्यप्यर्थे इच्छामीत् कामयेएव साधनभूताभिर्गो- भिरेवं भूतमिन्द्रंयष्टुमिच्छामीत्यर्थः ॥ ५ ॥