श्रवणम्

6.28.4
न ता अर्वा᳚ रे॒णुक᳚काटो अश्नुते॒ न सं᳚स्कृत॒त्रमुप᳚ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ᳚यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त᳚स्य॒ वि च᳚रन्ति॒ यज्व᳚नः ॥
▶ पदपाठः (Word-by-word)
न । ताः । अर्वा᳚ । रे॒णु॑क᳚काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒॑त्रम् । उप᳚ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒॑गा॒यम् । अभ᳚यम् । तस्य᳚ । ताः । अनु᳚ । गावः᳚ । मर्त᳚स्य । वि । च॒र॒न्ति॒ । यज्व᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेणुककाटः रेणोः पार्थिवस्यरजसउद्भेदकः कटिर्भेदनकर्मा अर्वायुद्धार्थमागतोश्वः तागाः नाश्नुते नप्राप्नुयात् तथा तागावः संस्कृतत्रं विशसनादिसंस्कारं नाभ्युपयन्ति नाभिगच्छन्तु अपिच तागावःयज्वनोयागशीलस्य तस्य मर्तस्य मनुष्यस्य उरुगायं विस्तीर्णगमनं अभयं भयवर्जितप्रदेशं अनूद्दिश्य विचरन्ति विशेषेणगच्छन्तु ॥ ४ ॥