श्रवणम्

6.28.2
इन्द्रो॒ यज्व᳚ने पृण॒ते च᳚ शिक्ष॒त्युपेद्द᳚दाति॒ न स्वं मु᳚षायति ।
भूयो᳚भूयो र॒यिमिद᳚स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द᳚धाति देव॒युम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । यज्व᳚ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप᳚ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।
भूयः᳚॑भूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय᳚न् । अभि᳚न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒॑युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः यज्वने यजनशीलाय पृणतेच स्तुतिभिःप्रीणयित्रेचस्तोत्रेशिक्षति अपेक्षितंधनंददाति नकेवलंसकृदेवदानं अपितु सर्वदैवेत्याह उपेद्ददाति उपेत्यसर्वदाददात्वेव यज्वनःस्तोतुश्च स्वं स्वभूतंधनं नमुषायति कदाचिदपिनापहरति अपिच अस्योभयविधस्य रयिं धन- मात्मनादत्तं भूयोभूयः पुनः पुनर्वर्धयन्नित् वृद्धिंप्रापयन्नेव देवयुं देवमिन्द्रमात्मनइच्छन्तंतंजनं अभिन्नेशत्रुभिरभेद्येखिल्येखिलमप्रति- हतंस्थानंतदेवखिल्यंस्वार्थिकोयत् अन्यैर्गन्तुमशक्येस्थले निदधाति निक्षिपति निवासयतीत्यर्थः ॥ २ ॥ दैवीनांहविःषुनतानशंतिनताअर्वेतिगोदेवतायायाज्यापुरोनुवाक्ये गोस्तोमेपिमरुत्वतीयनिष्केवल्ययोरेतेसूक्तमुखीये सूत्रितंच— नताअर्वारेणुककाटोअश्नुतेनतानशन्तिनदभातितस्करइति ।